SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥४१॥ अथाजेयप्रवृत्त्यर्थ । चतुर्दिक्षु चरान्निजान् ॥ बंधूनिवातिविश्वस्तां-श्चंद्रापीडो विसृष्टवान् ॥ ५७० ॥ परं विज्ञाय तद् सर्ग. २ वृत्तं । देवतामोहिता इव ॥ व्यावृत्ता न चराः केचि-त्तेन स्वस्थोऽभवन्नृपः ॥ ५७१॥ तस्य कारयतः शश्व-दजासूनुगवेषणम् ॥ आयु प्रांत इवागच्छत् । पक्षप्रांतः शनैः शनैः ॥५७२॥ तदा चागसि कस्मिंश्चि-चंद्रापीडेन कोपतः। सुबु|द्धिरिति मंत्रीद्रः। स्वपुरान्निरवास्यत ॥५७३॥ नूनं तेन क्रुधांघेन । न सुबुद्धिः स धीसखः॥ पुरान्निर्वासयांचक्रे । किंतु बुद्धिः स्वदेहतः ॥५७४॥ नृपापमानताध्मातो, वैरशुद्धिचिकीरसौ ॥ इतस्ततः परिभ्राम्य-नाजेयानीकमैक्षत ॥५७५॥ हास्तीयाश्वीयपादात-रथकोव्याकुलं बलम् ॥ वीक्ष्य पिंडीकृतं विश्व-मिव मेने सधीसखः॥ ५७६ ॥ तं प्रस्थितं परि-1 ज्ञाय । चंद्रापीडनृपं प्रति ॥ आसीद्देवीवचः सत्य-मिति निर्णीतवानयम् ॥५७७॥ तस्मात् स्वसिद्धिमाध्याय । दृष्ट्वा च तमजासुतम् ॥ सुबुद्धिर्विलसद्बुद्धिः। स्वस्वरूपं न्यबोधयत् ॥५७८॥ विपक्षमपि सच्चके । तं तथोच्चैरजासुतः॥ यथा ऽसौ कथयामास । वधोपायं विरोधिनः॥ ५७९ ॥ अथाजेयः पुरस्कृत्य । तं सुबुद्धिं स्वबुद्धिवत् । चंद्राननापुरीपार्थे । तस्था-1 वाक्तने दिने ॥५८०॥ पुरोपरोधं तिष्ठतं । तं विलोक्य बृहदलम् ॥चित्रत्रासविषादात्त-श्चंद्रापीडो व्यचीचरत्॥५८१॥ चरेषु कोऽपि तावत्सु । नास्योदंतमचीकथत् ॥ अयमायात एवात्र । दृष्टः किं व्योमतोऽपसत् ॥ ५८२ ॥ सत्यापनाकृते यद्वा । देवीदेवज्ञवाक्ययोः॥ काऽपि लोकोत्तरा दैवी-मायवेह विज़ुभते ॥ ५८३ ॥ भवत्वेवं तथाप्येनं । ध्वंसिष्ये स्वभु-16॥४१॥ जौजसा ॥ इति धैर्यान्नपः सैन्यान् । सेनान्या समनीनहत् ॥ ५८४ ॥ निशि मंत्री पुरं गत्वा । राज्यधुर्यानभाषत ॥ १ वरि, प्र.२ समीपं. ३ तं, प्र. •%%%% CREASSAGE
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy