________________
आसीदेवीवचः सत्य-मजापुत्रो यदाययौ ॥ ५८५ ॥ प्रभाते लक्षसैन्योऽसौ । चंद्रापीडं हनिष्यति ॥ तद्यूयं भजत द्राक्तं । जिजीविषत चेच्चिरम् ॥५८६॥ उदयी सेव्यते स्वामी। परोऽपि स्वोऽपि न क्षयी ॥ व्योमाप्याश्रयते सूर्य । सोमास्तसमये सति ॥ ५८७ ॥ नीतिसर्वस्वसंवित्तौ । छेकमेकं तमः स्तुमः ॥ छायाछलेन यद्दीपं । द्विषमाश्रित्य नंदति ॥५८८॥ अहं युष्मद्धितायैव । वक्तुमायामिदं ध्रुवम् ॥ एतदेव हि हादं यत्-प्रागेव हितशंसनम् ॥५८९॥ किंच वैदग्ध्यमप्येतद्यच्छुभायतिचिंतनम् ॥ को विशेषोऽन्यथा दक्षो । जडवद्दह्यते यदि ॥ ५९॥ ततो भवद्भिः सन्नह्य । स्थातव्यं सकलैरपि ॥ अजापुत्रेऽत्र संप्राप्ते। युष्मान्मेलयिताऽस्म्यहम् ॥ ५९१॥ आत्मनीने वचस्यस्मिन् । प्रधानैः स्वीकृते सति ॥ मंत्री
बहिस्तदैवैत्य । स्वनाथाय न्यवेदयत् ॥५९२॥ जातेऽथ तपने प्राच्या-ऽचलचूलाग्रचुंबिनि ॥ वाद्यमानेषु वाद्येषु । रिपु६ प्राणापहारिषु ॥ ५९३ ॥ अस्त्रैः सर्वांगसंलग्नैः । साक्षालोहमयानिव ॥ सिंहनादैर्मुखोद्गीर्णैः । शब्दाद्वैतमयानिव ॥५९४॥
तेजःस्तोमानिवाप्तांगा-नुत्साहानिव चाक्षुषान् ॥ अहंकारानिवाग्रस्थान् । प्रतापानिव पिंडितान् ॥ ५९५ ॥ कृतोत्फालान् रणोत्तालान् । वाचालान् जयनिःस्वनैः॥ प्रसादितान् पुरस्कृत्य । पदातीन् पातितद्विषः॥५९६॥ समरोन्मादिमिः सादि-निषादिरथिकैर्घनैः।। जगजग्धं कृतानेक-रूपैः साक्षाद्यमैरिव॥५९७॥ अन्वितः स्फीतशौंडीर्यो। जैत्रमारुह्य कुंजरम् अजासुतश्चचालाथ । द्विषदुन्माथकाम्यया ॥ ५९८ ॥ षडिः कुलकम् ॥ सुबुद्धिमंत्रिमंत्रेण । स पुरीद्वाररक्षकान् ॥ विना श्यागेतनान्नव्यां-स्तत्रात्मीयान्यवेशयत् ॥ ५९९ ॥ आजेये मध्यमायाते । प्रधाना मंत्रिभेदिताः॥ समगंसत सर्वेऽपि । | स्नेहला बांधवा इव ॥ ६००॥राजद्वारं ततःप्राप्य । तत्रत्यानपि यामिकान् ॥ हत्वाऽन्यान् स न्यधान्नीते-रविश्वासो हि