SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सर्ग.५ कुमार स्वतमंत्रं ततो ललौ ॥ १०३ ॥ देवबोधिस्ततः प्राप्य, भृगुकच्छमतुच्छधीः । प्रविश्य नर्मदानीरे, मंत्रं ध्यातुं प्रचक्रमे पालच० ॥१०४ ॥ एकतानमनस्त्वेन, स ध्यायन् वागधीश्वरीम् । स्थिरः स्थाणुरिवाज्ञासी-न्न किंचित् क्षुत्तृषादिकम् ॥ १०५॥ लक्षजापेऽपि वाग्देवी-मप्रसन्नां विलोकयन् । भूयो भूयोऽभियोगेन, पंचलक्षी स जप्तवान् ॥१०६॥ तथापि देव्यतोषेण, ॥८७॥ देवबोधिरतिक्रुधा । पुष्पमालामिवाःप्सी-दक्षमालां नभस्तले ॥१०७॥ स्तंभितामिव तां व्योम्नि, तारामालामिव स्थिराम् । दृष्ट्वाऽतिविस्मयाविष्टो, भगवान् ध्यातवानदः॥ १०८ ॥ मंत्रः सारस्वतोऽयं चे-दसत्यः स्यात्तदा कथम् ? । पक्षिणीवाक्षमालेयं, निरालंबाऽम्बरे स्फुरेत् ॥ १०९॥ परं ममैव दुर्दैवं', यदयं न फलेग्रेहिः । अमुष्मिन् प्रतिकूले हि, सकलं निष्फलं यतः॥ ११०॥ वागुवाच ततो दिव्या , किं ध्यायसि? महाशय ! पश्चात्पश्य यथा वेत्सि, मंत्रासिद्धिनिबंधनम्॥१११॥ ततः संतमसश्याम-वऋविग्रहचीवराः। पिशाचीरिव रौद्रीः षट्, स्त्रीः स्वपृष्ठे स दृष्टवान् ॥ ११२॥ दध्यौ च किमिमाः प्राच्यो, मूर्त्ता मे पापसंपदः । अथ दुर्ध्यानधोरण्यो, राक्षस्यो वाऽत्तुमागताः॥११३॥ दिव्यभाणीत् पुनर्वाणी, देवबोधे। त्वया पुरा । चक्रिरे पडिमा जीव-हत्याः पापविपाकिमाः॥११४ ॥ स्थितासु तासु कात्स्न्येन, त्वदात्मनि तमास्विव ।। कथं वागीश्वरीमंत्र-प्रसादौकः प्रकाशताम् ॥ ११५॥ एकैकलक्षजापेन, पृथग्भूतास्तवाऽऽत्मनः। पृष्ठे षड्जीवहत्यास्ताः, स्त्रीरूपेणावतस्थिरे ॥ ११६ ॥ कुपितेन त्वया क्षिप्ता-ऽक्षमालेयं मयाऽम्बरे । स्तंभिता स्वप्रभावेण, त्वत्प्रत्यायनकाम्यया देवबोधितः. १ उद्योगेन-आग्रहेण, २ अक्षाणां-रुद्राक्षाणां माला तां-जपमाळामित्यर्थः, ३ दुर्भाग्यम्, ४ मंत्रः.५ सफलः. ६ भाग्ये. ७ परंपरा:-श्रेणयः, 15. आकाशे. ९ वाग्देवी. १० पूर्वभवकृतपापविपाकेन निर्वृत्ताः. ११ रात्रीपु. १२ सूर्यः, AGRAAGRIGANGANA GALORECAESCOPERAGRAT दध्याच ॥११३॥ दि कमाः ॥ ११ ॥ ७ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy