________________
कुमार
पालच०
॥११७॥
नाम् ॥ १२४ ॥ क स गोपगिरिगः, कैषा च वलभीपुरी । क्व तद्वासी कुमारोऽहं कैताः श्रेष्ठितनूरुहः ॥ १२५ ॥ परं पितुरुपालंभ - देवीसंगमनादिना । मत्पुण्यमेव सकलं, तदिदं पर्यणीनमत् ॥ १२६ ॥ मन्ये श्लोकोऽपि वाग्देव्याः, कृत्येनाऽनेन संप्रति । सत्यार्थतां दधाति स्म, न मृषा देवतोदितम् ॥ १२७ ॥ आसां च दक्षतां ज्ञातुं श्लोकं स्वज्ञापनाकृते । लिखित्वा यामि मां तेर्ने, विदंत्येताः प्रिया न वा ॥ १२८ ॥ इति ध्यानपरे पुण्य - सारे तं मंदिरात् ततः । प्रस्थापयितुकामेव, यातुकामा निशाऽजनि ॥ १२९ ॥ षङ्गिः कुलकम् ॥
अथ वैवाहिक विश्वद्, भूषां मुक्त्वा परं धनम् । शंकाभंगच्छलं कृत्वा, कुमारो निर्गतस्ततः ॥ १३० ॥ नितान्तं कांतभक्तत्वाद्, गुणश्रीरष्टमी प्रिया । तत्पृष्ठे निर्ययौ हस्ते, वहंती कनकालैकाम् ॥ १३१ ॥ स तस्यामेव पश्यंत्यां, बहिद्वारप्रकोष्ठके । एकं लिलेख सुश्लोकः, श्लोकं स्वज्ञापनाकृते ॥ १३२ ॥ पुण्यसारस्ततो गत्वा, पूर्वसंकेतिताऽऽस्पदम् । समागंस्त तयोर्देव्यो- स्तद्वर्त्म प्रेक्षमाणयोः ॥ १३३ ॥ तं पारिणेत्र चिह्नाढ्यं दृष्ट्वा देव्यावपृच्छताम् । त्वमेव पर्यणैषीः किं ?, कामदेवकनीरिमाः ॥ १३४ ॥ कुमारेणोमिति प्रोक्त, स्मेरे देव्यौ जजल्पतुः । धन्यस्त्वं परिणिम्ये य- स्तादृशीः पद्मलोचनाः ॥ १३५ ॥ पुण्यसारोऽवदत् सोऽयं, प्रसादो युवयोर्मयि । पंगोरिव न चेदत्र, कथं स्यान्मे समागमः १ ॥ १३६ ॥ त्वं तिष्ठासुः प्रतिष्ठासु - रथवेति निवेदिते । देवीभ्यां सोऽवदन्नंतुं पितॄनेष्याम्यहं सह ॥ १३७ ॥ तं कुमारं समादाय, व्योम्नोत्पत्य
१ नगरम् २ परिणतम्. ३ सर्ग ६ श्लोक ४८, ४ लोकेन. ५ सुवर्णभृङ्गारम् ६ गृहद्वारपिंडे ७ सर्ग ६ श्लोक १८६. ८ मार्गम् ( बाट ).९ " ओमाङ्गोश्च " इतिपररूपम् १० स्थातुमिच्छुः ११ प्रस्थातुमिच्छुः १२ आ इष्यामि - आ इषू दि० ल आ इण् अदादिः ल.
सर्ग. ६
॥ ११७ ॥