________________
च तत्क्षणम् । मुक्त्वा च तद्वाभ्यर्णे, तिरोधत्तः स्म देवते ॥ १३८ ॥ त्रियमाजागरोद्विग्नः, पुण्यसारस्तदा क्षणम् । शय्यां कृत्वोत्तरीयं स्वं, निदद्रौ प्रमदोद्धुरः ॥ १३९ ॥
निर्वासितं सुतं मत्वा, पुण्यसारप्रसूरथ । तम्बंत्य मंदमानंद, जगाद देयितं प्रति ॥ १४० ॥ स्वामिंस्तवाभवत् कोऽद्य, निंद्योऽयं धीविपर्ययः । येने प्राणाधिकः पुत्रो, गृहान्निर्वासितस्त्वया ॥ १४१ ॥ अथाहरत हाराद्यं, यद्ययं बाल्यकेलिभिः । शिक्षणीयस्तदा सम्यग् निष्काष्यो न तु भृत्यवत् ॥ १४२ ॥ स्मरसि त्वं स्मराकारो, निःसुतस्य सुतस्तव । उत्पत्स्यते कथंकारं, कियताऽर्थव्ययेन च ॥ १४३ ॥ अस्थिरस्य धनस्यार्थे, निर्भर्त्सयति कः सुतम् ? । आरकूटकृते को हि, परित्यजति कांचनम् १ ॥ १४४ ॥ तदुत्तिष्ठ सुतं सद्यो, मृगयित्वा समानय । भोक्ष्ये प्रेक्ष्य मुखं तस्य नान्यथेति विनिश्चयः ॥ १४५ ॥ धनसारोऽवदद् भद्रे !, निराकर्तुं कुकर्मताम् । शिक्षितस्तनयो नो चेन्मम प्राणाधिकोऽस्ति सः ॥ १४६ ॥ स्तेयादिकृत् तनूजोsपि, कुलप्रध्वंसहेतवे । प्राणनाशाय पीयूष - मपि हि क्ष्वेडमिश्रितम् ॥ १४७ ॥ यदि व्यसनिनं पुत्रं, शिक्षयेन्न पिता तदा । स तत्पापेन लिप्येत, प्रजापापेन भूपवत् ॥ १४८ ॥ इत्युदित्वा चतुर्दिक्षु, भुजिष्यान् प्रेष्य सत्वरम् । उदतिष्ठत् स्वयं श्रेष्ठी, पुण्यसारं विलोकितुम् ॥ १४९ ॥ नगरे मित्रवेश्मादौ, बहिर्देवकुलेषु च । नष्टवस्त्विव तं श्रेष्ठी, निशां सर्वा व्यलोकयत् ॥ १५० ॥ अपश्यंस्तनयं क्वाऽपि, प्रातर्देवनियोगतः । ससार धनसारस्तां, पुण्यसाराश्रितां दिशम् ॥ १५१ ॥ गव्यूतिद्वयमाक्रम्य, सोऽपश्यद् वटभूरुहः । तले सुप्तं सुतं पारि - णेत्रवेषादिभासुरम् ॥ १५२ ॥ उपसर्पति यावत् तं पिता प्रमद
१ रात्रिः २ हर्षोत्कटः, ३ माता. ४ पतिम् ५ धीविपर्ययेण ६ पित्तलकृते ७ विष०, ८ सेवकान्.