SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ यत् ॥ ११०॥ युग्मम् ॥ कन्या निरूप्य तद्रूपं, सुधाञ्जननिभं दृशोः। कृतार्थ मन्यमानाः स्वं, प्रत्येकं हृद्यचिंतयन्॥११॥ कामोऽयं किमु निस्सीम-कामनीयकसंपदा । यद्वा संभाव्यते तस्य, क्केयं कायवियोगतः॥ ११२॥ अस्त्यस्माकं महद्भाग्य, यदयं जायते पतिः। न हि चिंतामणिः पाणिं, विना पुण्यं प्रपद्यते ॥११३॥ इति ध्यानभृतां तासां, कटाक्षाः स्वागतक्रि-18 याम् । रोमाञ्चेन सहोत्थाय, पुण्यसारस्य तेनिरे ॥ ११४॥ त्रिभिर्विशेषकम् ॥ ततोऽर्चितानां मातॄणां, पुरतो द्विजपुंगवः। कुमारस्य कनीनां च, पाणिपद्मान्ययोजयत् ॥ ११५॥ कुमारेण वधूभिश्च, सव्येतरकरार्पणात् । परस्परापरित्यागे, वितीर्णः प्रतिभूरिव ॥११६॥ काक्षेण वीक्षमाणास्ताः, स्थायं स्थायं पुनः पुनः। अपर्चपाशिखाभंग-मिव किंचित् तदाssचरन् ॥११७॥ तत्राऽऽचारेण नो नाश-भिया बद्धाऽञ्चलान् मिथः। आनीय च वधूयुक्त, वरं वेद्यंतरं शुचि ॥११८॥ हुत्वाऽनलं चतुष्कृत्वो, भ्रमयामासिवान् द्विजः। चतुर्गतिभवभ्रांति, पुरस्ताद् ज्ञापयन्निव ॥११९ ॥ युग्मम् ॥ विश्वेऽपि निःसपनं यत्, तद् रत्नाश्वाम्बरादिकम् । कामदेवः स ददिवान् , जामात्रे यौतकं मुदा ॥१२०॥ हर्षयामास च प्रीतिगौरान पौरान स्वबंधुवत् । दिव्यभोजनतांबूल-दुकलाभरणादिभिः॥१२शाततः प्रियाभिरष्टाभि-रिन्द्राणीभिरिवाद्रिभित्। कुमारः श्वशुरादेशा-दध्यास्त सदनं नवम् ॥१२२॥ अंगसंवाहनाऽऽलाप-पुष्पपत्रार्पणादिभिः। प्रियाभिर्लोभ्यमानोऽपि, प्रियोऽभिद्यत नाश्मवत् ॥१२३ ॥ किंतु मोहितवद् दध्या-वहो पुण्यस्य वल्गितम् । दुर्घटं घटयत्येव, यज्झटित्येव देहि १ दृष्ट्वा. २ कामस्य. ३ निस्सीमकामनीयकसंपत्. ४ युवाऽयम्-प्र. ५ गोत्रदेवीनाम्. ६ दक्षिणवामहस्तार्पणात्. ७ लग्नकः (जामीन ). ८ अपरम् अपेक्ष्य त्रपा० अन्यहेतुकलज्जाशिवरभंगमिव. ९ प्रपूज्य-वह्नौ घृतादिकं प्रक्षिप्य. १० भ्रमणम्. ११ विवाहकाले लब्धं धनं-यौतकम् . १२ इन्द्रः, १३ अंगसंमई नम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy