SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. ॥१८॥ SHARAMMARCA ॥५१९॥ इत्युक्तोऽपि यदा नादात् । खड्ग विद्याधरात्मजः॥ अनिच्छतोऽपि तस्मात्तं । तदा भूपोऽग्रहीद् ग्रहात् ॥५२०॥ *स सौम्यदर्शनो भूभृत् । करालकरवालभाक् ॥ भेजे भुजंगमाश्लिष्ट-चंदनदुमतुल्यतां ॥५२१॥ ततोऽव्यापारयत् स्कंधे कृपाणं स्वेन पाणिना॥ नृपः स्मेरमुखः काष्ठे । कुठारमिव वर्धकिः॥५२२॥ नृपस्कंधः कृपाणेन । सुहृदेव सुहृत्तदा ॥ संश्लिष्य पुष्यति स्मोच्चै । रोमांचं मूर्तहर्षवत् ॥५२॥ अथ व्यापार्यमाणोऽपि । भुजः शक्तोऽपि भूभुजः॥ शिरच्छेत्तुमलंभूष्णु- भूत् कीलितवत्किल॥५२४॥प्राक्पटिष्ठोऽपि मत्तेभ-कुटस्थलविपाटने॥अकिंचित्करतामांची-दधुना मत्करः किमु ॥५२५॥ध्यात्वेति तेन हस्तेन । भृत्येनेव प्रभुदुहा ॥ दह्यमानो नृपः खड्ने।वामं व्यापारयत्करं ॥५२६॥ युग्मं ॥तेन व्यापारितः खग-स्तीक्ष्णधारोऽपि तत्क्षणं ॥ आस्फालित इव ग्राणि । कलयामास कुंठतां ॥५२७॥ दोर्माद्यखगकुंठत्वदीनो लीनव्यथश्चिरं ॥ अदंदह्यत भूपोंत-मत्रस्तंभितभोगिवत् ॥ ५२८ ॥ दध्यौ च वीक्षापन्नः सन् । धिग्मे भंगुरभाग्यतां ॥ असावुपचिकीर्षापि । यत्सिद्धिं नाधिरोहति ॥ ५२९ ॥ धन्यास्ते प्राणिनो येषां । भवत्युपकृतिस्पृहा ॥ ते तु धन्यतमा येषां । सा सद्यः सिद्धिमश्नुते ॥ ५३० ॥ नृपोऽथ शीर्षच्छेदार्थ । यावद्याचति योगिनं ॥ तावत्सोऽप्यति मूर्छाल-विच्छन्नदुरिव पेतिवान् ॥ ५३१ ॥ अहो अस्यापि किं जात-मिति दुःखोत्थमूर्छया ॥ भूपः शून्य इवाश्रीषीद्धाकारं दिवि दैवतं ॥ ५३२॥ लब्धसंज्ञः क्षणात् क्षोणी-भृदक्षत निजाग्रतः॥ कादंबिनीमिवोक्षंतीं । कमंडलुगलज्जलैः ॥ ॥५३३ ॥ नंती संतमसं दीप्त्या । प्रदीपकलिकामिव ॥ दिव्याभरणभंगीमि-भर्भाती कल्पलतामिव ॥ ५३४ ॥ सेव्यमानां १ कट, प्र. २ अतिशयेन अदृह्यत. ३ वि-विविधप्रकारा ईक्षा-मतिः तां आपन्नः, ४ प्राप्नोति. ५ प्राप्नोति. ६ मेघमालावत् सिंचती.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy