SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ २६ ॥ ॥ १३६ ॥ निशीदृशि प्रसर्पत्यां । सुप्ते च कपिपूरुषे ॥ अंतर्देवकुलं ज्योति - रजापुत्रो न्यभालयत् ॥ १३७ ॥ इयच्चिरमिह ज्योतिर्नैक्षि संप्रत्यभूत्कुतः १ ॥ किं दैवं ? किमुताग्नेयं । किं भुजंगमणीभवं १ ॥ १३८ ॥ पश्यामीति गतो ज्योति - दृष्ट्वा तद्विवरस्थितं ॥ जिज्ञासमानस्तन्मूलं । स विवेश तदंतरे ॥ १३९ ॥ युग्मं ॥ तस्मिन् प्रविष्टमात्रेऽपि । ज्योतिस्तद् द्रागधोऽगमत् ॥ सोऽपि तत्पृष्ठलग्नोऽगा-तेन मूढमना इव ॥ १४०॥ तत्खेदार्थमिवामुष्मिन्नधोऽधो याति तेजसि ॥ अनुगच्छन्नजापुत्रो । ललंघे महतीं महीं ॥ १४१ ॥ पुरः प्राप्ता समा भूमि-ज्योतिस्तच्च तिरोऽभवत् ॥ अजाभूरपि तद्देशे । पुरीं प्रेक्ष्य परामृशत् ॥ १४२ ॥ क्व तद्देवकुलं ? तन्मे । क्व मित्रं ? क्व च तन्महः ? ॥ केयं भूमिः ? पुरी केयं ? । बपुरे विधिवल्गितं ॥ १४३ ॥ मार्गदर्शीव तज्ज्योति — स्तिरोऽभूत्तदयं पुरः ॥ कथं गंतेति कारुण्या - दिवार्कोऽभ्युदितस्तदा ॥ १४४ ॥ भास्करेऽभ्युदितेऽनेश- लोकांकरणं तमः ॥ किं तेजस्तमसोः क्वापि । श्रूयते वा सह स्थितिः ॥ १४५ ॥ चूर्णीकृत्य फलं हार - सध्यङ्कव्यां निवेश्य तत् । चचाल कौतुकोत्ताल - स्ततोऽजातनुजः पुरः ॥१४६॥ पुरीपरिसरे वीक्ष्य | शृगालादीन् भ्रमत्तमान् ॥ किमुद्वसा? वसंती? वाs - स्त्येषेत्येष व्यतर्कयत् ॥ १४७॥ मध्ये पुरं गतो लोकं । सशोकं हतबंधुवत् ॥ श्रीपथं शून्यवत्पश्यन् । राजद्वारमवाप सः ॥ १४८ ॥ दुःखदग्धानिव श्याम-मुखान् दौवारिकानपि ॥ प्रेक्ष्य प्रक्षोभनिर्मुक्त-स्तानप्राक्षीदजासुतः ॥ १४९॥ केयं पुरी ? नृपः कोऽत्र ? । कुतो लोकः सशोकहृत्ः १ ॥कस्माद्यूयमपीदृक्षाः । दक्षाः ! मे ख्यात तत्त्वतः ॥ १५० ॥ तेऽवोचन् स्वःपुरीवैषा । पुरी नाम्ना शिवंकरा । अत्रास्ति नृपतिः प्रौढ-स्थाम्ना नाम्ना च दुर्जयः ॥ १५१ ॥ सोऽन्यदा वर्द्धिपापर्द्धिः । पाप निर्ययौ बहिः ॥ नैकैरनीकैः सोत्सेकै - राकंपितमहीतलः ॥ १५२ ॥ क्षेत्रपाला इव श्वाना- श्रिता रौद्राश्च केचन ॥ उद्यत्पर सर्ग. २ ॥ २६ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy