SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ SALAAMALAMROSAROKALAMALS विजने न जनागमः॥सुरदुफलवत्केन । फलमेतत्तदाददे ॥ १२१॥ धिग्दैवं येन मे सेहे । नैतावदपि वैरिवत् ॥ अथवा | मंदपुण्यानां । करस्थमपि याति ही ॥ १२२॥ कटीतटे फलं बद्धा । यद्यपास्यमहं पयः॥ तययास्यदिदं नैव । यद्वेग्भवितव्यता ॥ १२३ ॥ ध्यायन्निति हृदा शून्यो । यावत्तिष्ठति तत्र सः॥ हारहारिगलः कोऽपि । पुमांस्तावत्तमूचिवान् ॥ १२४ ॥ अहं कपिस्तवोपात्त-फलताशनादपि ॥ घुसद्वरादिवेदानीं । जातोऽस्मीदृग्नरोत्तमः॥१२५ ॥ आजग्मिवान् भवानत्र । मद्धितायैव केवलं ॥ भवेद्भवांतरप्राप्याऽ-न्यथा कथमियं नृता ॥ १२६ ॥ तदक्षतं फलमिदं । हारं च प्राभृतं मम ॥ अंगीकृत्यायमात्मीय-दासत्वेन कृतार्थ्यतां ॥ १२७ ॥ कपिमर्योऽभ्युदीर्येति । तस्मै हारफले ददौ ॥ अजापुत्रोऽपि तत्प्राप्ति-तुष्टः स्वीययति स्म तं ॥ १२८ ॥ तत्फलं हृदि निश्चित्य । तिरश्चां नरताकरं ॥प्रभावः कोऽप्यमुष्येति । विमृशन् स विशिष्मिये ॥ १२९ ॥ गच्छेदेको न पंथान-मिति स्मृतिमिव स्मरन् ॥ सहायीकृत्य तं मयं । प्रतस्थे स स्थिरः पुरः॥ १३० ॥ गच्छन्मार्गमवच्छिन्न-मेकं देवकुलं कलं ॥ दिनांतेऽजासुतःप्रेक्ष्य । विश्रांत्यै तत्र तस्थिवान् ॥ १३१॥ | महविनोऽपि दैवाज्ञां । न लंधितुमधीशते ॥ईतीव ज्ञापयन् विज्ञां-स्तदाऽस्तं प्राप भास्करः॥१३२॥यावद्दिनं भवेत्तावदहं स्यां गुणवत्स्वपि ॥ इतीव कथयंती श्रीः । सायं पद्माकरं जहौ ॥१३३ ॥ अस्तमीयुषि मार्तडे । प्रदीपे विश्ववेश्मनः॥ युक्तं दृशामनायुष्यं । तमकैवल्यमुत्थितं ॥ १३४ ॥ मुक्ताफलभृतं नील-रत्नपात्रमिवोच्चकैः ॥ चकासामास गगनं । | तारकोत्करदंतुरं ॥ १३५॥ शश्वक्षिपत्यपि मयि । ध्वांतमेति मुहुः कुतः ॥ इतीवोरुरुषा रक्त-स्तदा शीतांशुरुद्ययौ| १ महखंतो. प्र. २ इति वि.प्र. ३ दिवसः, पक्षे भाग्यं. ४ कमलतन्तुवत्सु, पक्षे-गुणशालिषु. ५ शोभा-पक्षे-लक्ष्मीः . ६ दिनान्ते. ७ कमलं पक्षे लक्ष्मी.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy