________________
& काल-धर्म नीता मयाऽङ्गिनः । नियमोऽतः परं याव-जीवं जीववधेऽस्तु मे ॥५१३॥ पक्षिवत् पोषयन् प्राणान् , कंदमूलालफलादिभिः । अंहसा मांसलं मांस-मपि नानामि कहिंचित् ॥५१४ ॥ इत्यभिग्रहमत्युग्र-मादायाऽहं दयालुहृत् । यति
स्थितिमिवाऽमायां, जायां प्रति तैमभ्यधाम् ॥ ५१५॥ साऽपि धर्मोन्मुखी किंचित्, सुमुखी मांसभक्षणे । जग्राहामिग्रह प्रायः, सती पत्यनुवर्तिनी ॥ ५१६॥ ततो वनेचराञ्जीवान , पश्यंती निजजीववत् । नियम पालयंतौ च, कालं निन्यिवहे बहुम् ॥ ५१७ ॥ अंतेऽहं भद्रभावेन, मृत्वा कारुण्यपुण्यतः । अस्मि निःसीमसौख्यक-पात्रं मोऽप्यमर्त्यवत् ॥५१८॥ प्रिया दयेकजीवातुः, सा तु मद्विरहातुरा । मृत्वोदपादि कुत्राऽपि, न वेद्मि तदहं हहा ॥ ५१९ ॥ इति ब्रुवत एवास्य, | पुण्यसारस्य दक्पथे । अवातारीद् दिवः साधु-श्चारणः पापवारणः॥५२०॥ अवतीर्य रथात् तूर्ण, द्वेधाऽपि प्रेमदान्वितः। कुमारस्तं नमश्चक्रे, मुनिं व्रतमिवांगिनम् ॥५२१॥श्रेयोराशिमिव प्राप्य, तदाशीर्वादमादरात् । कुत्र मे प्राग्भवस्त्रीति, पृच्छति स्म स तं ततः॥ ५२२ ॥ विज्ञाय ज्ञानतः साधु-रभिधत्ते स्म तं प्रति । गुणश्रीरियमुद्दाम-प्रीतिस्ते प्राग्भवप्रिया ॥ ५२३ ॥ स्मरसि त्वमियं धृत्वा, पुंवेषं त्वत्पुरं गता। मृतिव्यतिकरेण त्वां, धीमन्नासादयिष्यति ॥ ५२४ ॥ पुष्णाति प्राग्भवप्रीते-रेव कांतास्वियं त्वयि । पुष्कलं प्रेम तारासु, रोहिणीव सितद्यतौ ॥ ५२५ ॥ किंच दृष्ट्वा पुरोपांतो-दात्तजीवदयात्रतात् । ईदृक्फलं ततः कार्य, भवेऽस्मिन्नपि तत् त्वया ॥ ५२६ ॥ कृपैव सर्वजीवानां, परमानंददायिनी ।
१ पापेन पुष्टम्. २ खभार्याम्. ३ अभिग्रहम्. ४ धर्मसन्मुखी. ५ जातोऽस्मि इत्यर्थः. ६ दृष्टिमार्गे-दृष्टिविषये. ७ आनन्देन स्त्रिया च युक्तः. ८ भूतार्थे भविष्यद् "अभिज्ञावचने लद" इति. ९ कान्तासु-अन्यत्रीषु इयं-गुणश्रीः. १० पूर्वभवस्वीकृतविशालजीवदयात्रतात्. ११ जीवदयाव्रतम्.