________________
-
कुमारपालच०
॥२०६॥
योषिद्नेहादिसंक्लिष्टः, संसक्तः प्रणिगद्यते ॥५१६ ॥ उत्सूत्रमाचरल लोके, दिशत्युत्सूत्रमेव यः। यथाछंदः स विज्ञेयः, स्वच्छंदविहितस्थितिः ॥ ५१७ ॥ अमीषां वंदनाद् देव !, न कीर्तिर्नापि निर्जरा । कायक्लेशस्तथा कर्म-बंधः प्रत्युत वल्गतः ॥ ५१८ ॥ श्रुत्वा तद् ध्यातवान् भूमान् , मम तन्मुनिवंदनम् । नूनं न्यवेदयत् कोऽपि, व्याचष्टे यदिदं प्रभुः ॥५१९ ॥ ततः स्मित्वा जगादासौ, सम्यगरम्यद्य शिक्षितः । अतः परं विधास्यामि, भवदुक्तमिदं सदा ॥ ५२०॥ । अथ भूपनमस्काराद्, यतिपांशः स लज्जितः। एवं ध्यातुं समारेभे,भव्यात्मकतया हृदि ॥५२॥ घिग् मामधममूर्धन्यं, यो लब्ध्वाऽप्यतिदुर्लभम् । व्रतचिंतामणिं मोहात्, प्रमादाब्धौ न्यमज्जयम् ॥ ५२२ ॥ सतोऽपि प्रैथमे भोगान् , विमुच्य । व्रतमादधुः । अहं पुनव्रतस्थोऽपि, स्पृहयाम्यसतोऽपि तान् ॥ ५२३ ॥ स वरं शक्तिहीनत्वाद् यो नांगीकुरुते व्रतम् । तदूरीकृत्य मुंचंस्तु, न स्तुतेर्भाजनं जनः ॥ ५२४ ॥ धन्योऽयं भूधवो येन, नतोऽहमकीर्ण्यपि । अहं पुनरधन्यो यो, वंदये तादृशं नृपम् ॥ ५२५ ॥ यः स्वयं स्खलिताचारः, सदाचारान् प्रणामयेत् । तस्य स्वात्माऽनभिज्ञस्य, नरकेऽपि गतिन हि ॥ ५२६ ॥ ततः सर्व परित्यज्य, तत् किंचिद् विदधेऽधुना। येनाहं सोऽपि राजर्षि नैव लज्जावहे कचित् |॥५२७॥ सप्तभिः कुलकम् ॥अथ बंधनवत् त्यक्त्वा, धनाद्यं स महाशयः। गुरोरालोचनापूर्व, पुनर्वतमशिश्रियत्॥५२८॥ |विनाऽनशननीरेण, पापतापमहापदः । संशमिष्यति मे नेति, स तदैव तदादधे ॥ ५२९ ॥ दुस्त्यजोऽपि महामोहः, सुत्य-IPREE जस्त्यागतोऽनयोः । इतीव साधुरत्याक्षीद रागद्वेषौ शुभद्विषौ ॥ ५३०॥ भवदावाग्निदग्धस्य, शांतिर्जीवस्य जायते ।
१ निंद्यो यतिः यति'पाशः. २ पूर्वमुनयः. ३ व्रतं खीकृत्य. ४ धस्तव्रतोऽपि. ५ रागद्वेषयोः.
SCRECACANC+KR