________________
६ अनेनेति मुनिर्मत्वा, स पपौ समतामृतम् ॥ ५३१ ॥ तस्य प्रत्यहमभ्येत्य, नानापाटकवासिनः । चक्रिरे पत्तनजना, भाव
नाभिः प्रभावनाः॥५३२॥ तं निशम्यानशनिनं, राजर्षिरपि हर्षतः । प्रभावनार्थ तत्रागात्, पुण्यांशं को हि नेप्सति ? ॥५३३ ॥ गुरुं नत्वा मुनींद्रं तं, यावन्नमति भूपतिः। नमस्कारानिषिध्यैव, स तावत् तमभाषत ॥ ५३४ ॥ देव ! त्वं मे गुरुः साक्षा-दसि त्वां वंदये कथम् ? । यतोऽस्मि त्वन्नतेर्बुद्धो, व्रतानशनभागहम् ॥ ५३५ ॥ तदा तादृगवस्थोऽपि, न वन्द्येय यदि त्वया । तदा शिवंकरे स्यातां, क व्रतानशने मम ॥५३६ ॥ मजतो मे भवांभोधौ, नमस्कारस्तवाभवत् । करावलंबनकरो, महापोत इव स्वयम् ॥ ५३७ ॥ असौ भवत्प्रसादो मे, सर्वोऽप्यस्ति पचेलिमः। प्रभावनां वितन्वंति, यदमी धार्मिका मुदा ॥ ५३८ ॥ ज्ञात्वा राज्ञाऽपि स प्रोचे, भवान् भध्याशयो भृशम् । अत एव नमस्कार-मात्राद् द्रागप्यबुध्यत ॥ ५३९ ॥ अभव्यास्तु स्वयं विश्व-विदाऽपि प्रतिबोधिताः। न कहिंचित् प्रबुध्यते, स्थूलोपलमया इव ॥५४०॥ सुखासुखातिवद् धर्मा-धर्माप्तावपि देहिनाम् । हेतुर्भवेत् स्वकर्मैव, परः सान्निध्यमात्रकृत् ॥ ५४१॥ त्वमे वास्यधुना धन्यो, येनेदृग् दुष्करं कृतम् । सुखमल्पमपि त्यक्त्वा, कश्चरेद् दुश्चरं यतः॥ ५४२ ॥ पंकमग्नो यथा दंती, कश्चिदेव स्वमुद्धरेत्। मोहमग्नस्तथा देही, कोऽपि भ्रष्टं व्रतं खलु ॥५४३ ॥ भूयास्त्वं सुकृते स्थेया-ननुभूयाः परं महः। प्रभूया भवनिर्भदे, विभूयाः शिवशर्मणि ॥ ५४४ ॥ इति स्तुत्वा बलान्नत्वा, तं मुनींद्रं महीपतिः । चक्रे प्रभावनां पुण्य
REACOCALSACCESCAMERA
१ समतामृतेन. २ मुनेः. ३ उन्नतीः. ४ न आतुमिच्छति ? ५ वन्देय, प्र. ६ समर्थो भव. ७ व्याप्तो भव..