SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ** स्लि, क्षमादिगुणधारकः । शवनाकारि च वाचनतगणी मुदं ददनु वा २ ॥ अनुष्टुप् ॥ तृतीयो यस्य शिष्योऽस्ति, क्षमादिगुणधारकः । श्रीक्षमाविजयो नाम्ना, मासक्षपणकारकः ॥७॥ युग्मम् ॥ अनुष्टुप् ॥ लूनारे विहिता सुसूत्रकथिता मूर्तिप्रशंसा घना । येनाकारि च वाचना भगवतीसूत्रस्य मुम्बापुरे यज्ज्ञानामृतपानतो भुवि तले भव्याः सुबोधं गताः । सोऽयं क्षान्तिगणी मुदं ददतु वः संसारपारंगमी ॥८॥शार्दूल०॥ टीप्पणं शोधनं चास्य, वाचनं भगवत्यनु । मुम्बापुर्या कृतं यैश्च, मुद्रणस्योपदेशनम् ॥९॥ अनुष्टुप् ॥ उपर्बुधज्वलद्विद्या-प्रतापा मोहनाशकाः । श्रीक्षान्तिविजयास्ते च, जयन्ति गणिसत्तमाः॥ १०॥" मुम्बापूरे कृता येषां, प्रशस्तिरतिशोभना । तेभ्योऽनुयोगसूरिभ्यो, नमोऽस्तु 'शिव' कारणम् ॥ ११॥" परिशिष्टम्, नं०२ पं० श्रीक्षान्तिविजयगणिकृता संखेश्वरमण्डनश्रीपार्श्वनाथस्तुतिः ॥ शार्दूलविक्रीडितम् ॥ .. . ........ श्रीसंखेश्वरमंडनं जिनवरं पार्श्व स्तुवे कामदं, श्रीमन्तोऽन्यजिनेश्वरा जगति ये तान् नौम्यहं सर्वदान् । निःश्रेयस्पददायकं नतसुरं वंदे तथा चागम, श्रीपद्मावति ! देवते ! भव सदैवोमेदशिष्ये शुभा ॥१॥ पं० श्रीक्षान्तिविजयगणिकृता लोद्रवापत्तन (जेसलमेर) मण्डनश्रीचिंतामणिपार्श्वनाथस्तुतिः ॥ अनुष्टुप् ॥ वामाकुक्षिसरो हंसं, श्रीचिन्तामणिसंज्ञितम् । श्रीमत्पार्श्वजिनं नौमि, लोद्रवापत्तनस्थितम् ॥१॥ देवेन्द्रवन्दिताः सार्वा-स्तीर्थेशाः सर्वदर्शिनः । विश्वोपकारकारो, जिनाः सर्वे जयन्तु ते ॥२॥ मुक्तिमार्गोपदेष्टारं, मिथ्याध्वान्तविनाशकम् । सर्वज्ञदेशितं वन्दे, सिद्धान्तार्क सुभावतः ॥३॥ *HIRISHISHILA R G
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy