SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ -कुमार स्थगिता स्थास्यति क्षोणी-मध्ये निधिगतर्द्धिवत् ॥ २३२॥ एकं शय्यातरं कुंभ-कारं तस्य मुनेः सुरः। नीत्वा पालच. |वीतभयस्थानात् , सिणपल्लीं महापुरीम् ॥ २३३ ॥ तन्नाम्ना नगरं नव्यं, कुंभकारेतिसंज्ञितम् । करिष्यत्यहह स्नेहो, निस्सीमो धुसदामपि ॥ २३४ ॥ युग्मम् ॥ पुनरप्यभयामात्यः, पृष्टवान् परमेश्वरम् । प्रतिमा साऽऽहती कर्हि, ॥१९६॥ भाविनी प्रकटाऽऽदिश? ॥ २३५ ॥ वाण्या योजनसर्पिण्या, प्रोचे द्वैमातुरो जिनः । अस्मन्निर्वाणतो वर्षे, द्विमुनि द्वींदुसंमिते ॥२३६ ॥ लाटगूर्जरसौराष्ट्र-सीमनि स्वर्गखंडवत् । भविष्यति पुरं नव्यं, नाम्नाऽणहिल्लवाटतकम् ॥ २३७ ॥ युग्मम् ॥ आसतामपरे लोकाः, पंजरस्थाः शुकादयः। नमस्कारं पठिष्यंति, तस्मिन्नार्हतवेश्मसु ॥ २३८॥ पूरयिष्यति तत्राह-प्रतिमा रत्तनिर्मिताः । शाश्वतप्रतिमाऽऽलोक-प्रीतिं धार्मिकचेतसि ॥२३९ ॥ आढ्या विदग्धा धर्मज्ञाः, पुरुषर्षांयुषजीविताः । लोकास्तत्र निवत्स्यंति, सुषमाकालजा इव ॥ २४०॥ प्रतिवेईम सपत्नी स्वां, वीक्ष्य लक्ष्मी विजृमिणीम् । असूययेव लोकेभ्य-स्तेभ्यो यास्यति निःस्वता ॥२४१॥ ततोऽस्मन्मुक्तितो वर्षे, नँवषड्रसभूमिते। चौलुक्यवंशसद्रन-मूलराजनृपान्वयी ॥ २४२ ॥ दयादाक्षिण्यनैपुण्य-शौंडीर्यादिगुणकभूः । श्रीमान् कुमारपालाख्यो, भविता तत्र भूपतिः ॥ २४३ ॥ युग्मम् ॥ स दानधर्मयुद्धक-वीरभावविभावनैः । कर्णधर्मसुतश्वेत-हयाननुकरिष्यति 51 ॥१९६॥ M॥२४४ ॥ आस्वधुनीविंध्यशैल-पयोधिशकमंडलम् । पूर्वाद्यासु चतुर्दिक्ष, क्रमात् क्षोणी स जेष्यति ॥ २४५ ॥ त्रयाणां १ द्वयोः-मात्रोरपत्यं पुमान् द्वैमातुरः. २ वीरसं० १२७२,-विक्रमसं० ८.१. ३ अणहिल्लपत्तने. ४ दीर्घायुष्मंतः. ५ चतुर्थारकजा इव. ६ प्रतिगृहम्. ७ वीरसं० १६६९-विक्रमसं. ११९९. ८ नं, प्र. ९ अनुकूलता-दाक्षिण्यम्. १० कर्णयुधिष्ठिरार्जुनान् अनुसरिष्यति. ११ तुरुस्क (तुर्कस्तान ) पर्यन्तम्. AASASARAS*
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy