SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पूज्यपूजनकर्मणि ॥ ५९४ ॥ तस्यान्यान्यपि रत्नानि । सेनान्यादीनि जज्ञिरे ॥ अगण्यपुण्यपण्यानां । किमिवास्ति दुरासदं ॥ ५९५ ॥ ततश्चक्रानुगश्चक्री । दिक्चक्रविजिगीषया ॥ चचाल चालयंश्चक्र-रेचलानचलानपि ॥ ५९६ ॥ महीमाक्रममाणस्य । चक्रभृत्सैन्यनीरः॥ अमजन भूभृतोऽप्यंतः। परेषां गणनापि का ॥५९७॥ स्वतेजसैव द्विषतः। पिषतस्तस्य चक्रिणः॥न कोऽपि संमुखस्तस्थौ । तिग्मांशोरिव कौशिकः ॥ ५९८ ॥ षट्खंड विजयं जित्वा । वकृत्वा निधी|नव ॥ व्यावृत्तः स्वपुरं प्राप-दभयंकरचक्रभृत् ॥ ५९९ ॥ चक्रभृत्त्वाभिषेके च । जाते द्वादशवार्षिके ॥ स वदान्यतया चक्रे । याचकान् धनदानिव ॥ ६००॥ सैदानभोगतां बिभ्र-द्विबुधाश्रितसन्निधिः॥ शक्रवच्चक्रवर्ती स । चिरं राज्यमपालयत् ॥ ६०१॥ अथागर्म गुरोर्तास्वा । स शिष्य इव हर्षुलः॥ गत्वा नत्वा च तत्पावें । देशनामिति शुध्रुवान् । ॥६०२॥ मनीषिणा तदाचर्य । येन स्याच्छाश्वतं सुखं ॥ तन्मुक्तौ तेदुपायस्तु । व्रतं प्रोचे जिनेश्वरः ॥ ६०३॥ व्रतं | तु सर्वसावद्य-योगत्यागोऽभिधीयते ॥ यस्मादत्राय॑ता लोके । मोक्षलक्ष्मीः परत्र च ॥ ६०४॥ जातोऽस्ति यदि ते सिद्धि-संगमो हृदयंगमः॥ तदादत्स्व व्रतं येन । सिद्धिरेति स्वयंवरा ॥ ६०५॥ चक्रवर्ती निशम्येति । मुक्तिसंगमनोउत्सुकः॥ राज्ये न्यस्य सुतं तस्य । गुरोः पार्थे व्रतं ललौ ॥ ६०६ ॥ सुदुस्तपेन तपसा । कुठारेण शितेन सः ॥ लुलाव सकलं मूलात् । पूर्वदुष्कर्मकाननं ॥ ६०७ ॥ केवलज्ञानमासाद्य । प्रबोध्य च घनं जनं ॥ अभयंकर यत्याप । निष्पापः १ पुण्यानां. प्र-२ रचलामचलामपि-प्र. निश्चला पृथ्वीमपीत्यर्थः ३ निश्चलान् पर्वतानपीत्यर्थः. ४ दातृस्वेन. ५ दानेन सहितः सदानः, सदानः भोगो यस्य स सदान |भोगः तस्य भावस्तत्तातांबिभ्रत् , पक्षे. सदा नभसिगच्छतीति सदानभोगस्तस्य भावस्तत्तातांबिभ्रत्. ( विद्वांसः पक्षे. देवाः शुश्राव इत्यर्थः ८ शाश्वतंसुखं. ९ मुक्त्युपाय:
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy