SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ४५ ॥ ॥ अथ तृतीयः सर्गः प्रारभ्यते ॥ अथ श्रीसिद्धराजस्य, राज्यं पालयतः सतः । भूयांसोऽपि सुखेनेयु- र्वासरा इव वत्सराः ॥ १ ॥ परं गृहस्थधर्मद्रोः, फलं नापत्यमाप सः । सशल्य इव तेनांत - र्महतीमधृतिं दधौ ॥ २ ॥ दध्यौ च मेऽभवन्मूर्ध्नि, पलितंकरणी जरा । पुत्रं नाद्यापि पश्यामि, निष्पुण्य इव सन्निधिम् ॥ ३ ॥ कुलं समृद्धमध्येत - न्निःश्रीकं तनयं विना । न शोभते सरः पूर्णमपि निष्कमलाकरंम् ॥४॥ दिनं दिनकरं विना, वितरणं विना वैभवं महत्त्वमुचितं विना, सुवचनं विना गौरवम् । सरः सरसिजं विना, धनभरं विना मंदिरं, कुलं तनुरुहं विना, श्रयति नैव सश्रीकताम् ॥ ५ ॥ संसारेऽस्मिन् द्वयं सारं, विभवंस्तनयोऽपि च । तेनैकेनापि हीनस्य, जन्मिनो जन्म निष्फलम् ॥ ६ ॥ जलबुद्बुदवद् विद्युद् — द्युतिवत्सांध्यरागवत् । कुर्ल नश्यति निष्पुत्रं, सहसाऽपि हहाऽङ्गिनाम् ॥ ७ ॥ पुत्रार्थं पार्थिवस्तेने, प्रयोगान् विविधांस्ततः । तथापि न स तस्यासी - भाग्यायत्ता हि सिद्धयः ॥ ८ ॥ अनपत्यतया दून - स्तदा श्रीसिद्धभूधवः । हेमाचार्य सहाकार्य, नंतुं तीर्थानि चेलिवान् ॥ ९ ॥ पादचारिणमालोक्य, चौलुक्यक्षितिभृत् प्रभुम् । सुखासनाधिरोहार्थ -मत्यर्थमुपरुद्धवान् ॥ १० ॥ गुरुर्जगदिवान् राजन् ! यतीनां नैव युज्यते । परपीडाकरत्वेन, वाहनाद्यधिरोहणम् ॥ ११ ॥ पद्भ्यां गलदुपानद्भ्यां संचरति दिवाऽत्र । चारित्रिणस्त एव स्युर्न परे यानयायिनः ॥ १२ ॥ जानाना जीवलोकस्य, सुखदुःखं प्रियाप्रियम् । कृपालवः कथं - जैनाः पीडां परात्मनाम् ॥ १३ ॥ यानानादानतो दूनः, कोपर्कप्रो नृपः प्रभुम् । महात्माऽपि जडोऽसि त्व-मि१ सेवधिं, प्र. २ समूहम् ३ संचरते प्र. सर्ग. ‍ 11 84 11
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy