SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ AURANGANA त्युदीर्य पुरो ययौ ॥ १४ ॥ त्रीण्यहानि पथि कापि, समगंस्त न सूरिराट् । अमंस्त तेन तं रुष्टं, स्वचित्ते क्षितिवल्लभः॥१५॥ तरीयेऽहनि सूरीशं, प्रसिसादयिषुः स्वयम् । नृपो गुरुदरद्वार-मुपासक इवासदत् ॥ १६ ॥ बहिःस्थितेन श्रीसिद्धमाभृता सूरिक्ष्यत । कांजिकेन समं भैक्ष, भुंजानः सपरिच्छदः॥ १७ ॥ तप्यंतेऽमी तपः कीड-महात्मानो यदन्वहम् । अनंत्यन्नं जलक्किन्नं, मार्गे चांहिप्रचारिणः ॥ १८॥ तदन्यजनसामान्य-धिया ऽमी माननोचिताः। नापमान्या मया किंतु, मान्या एव महेशवत् ॥१९॥ विमृश्येति नृपः सूरेः, क्रमौ नत्वाऽब्रवीत्प्रभो। यानानाश्रयणे रोषा-मयोचे ४ यत्क्षमस्व तत् ॥२०॥ सुखासनं मयाऽऽनीतं, यत्त्वं नाहतवांस्तदा । तेनोक्तस्त्वं जडोऽसीति, मया नाभक्तितः पुनः C॥२१॥ अध्वन्यपि सदाचारा-ध्वन्य! यन्मे न संगतः । तेन त्वां रुषितं ज्ञात्वा-ऽनुनेतुं प्राप्तवानहम् ॥ २२ ॥ ततः18 प्रभुभाष तं, किमागः प्रकृतं त्वया । यत्क्षम्यते मया देव ! त्वादृशा हि न सागसः ॥ २३ ॥ यच्च वर्त्मनि न क्वापि, | देवस्य समगंस्यहम् । कोपस्तत्र न मे किंतु, नार्थः पार्थिवदर्शने ॥२४॥ पद्भ्यामध्वनि संचरेय, विरसं भुंजीय भैक्षं सकृजीर्ण वासो वसीय, भूमिवलये रात्रौ शयीय क्षणम् । निस्संगत्वमधिश्रयेय, समतामुल्लासयेयानिशं, ज्योतिस्तत्परमं दधीय हृदये, कुर्वीय किं भूभुजा ॥२५॥ जीवन्मुक्तवदत्यंतं, तमलोलुपमानसम् । सूरिं प्रणम्य भूमीशो, निजवासमशिनि8यत् ॥ २६ ॥ ततः पुरस्सरीकृत्य, गुरुं जंगमतीर्थवत् । विमलाचलमारुक्षत्, सिद्धराट् सपरिच्छदः ॥ २७॥ कल्याणीभक्तिरभ्यर्च्य, तत्र श्रीनाभिनंदनम् । निस्सीम कलयामास, लोचनेन जनुःफलम् ॥ २८ ॥ पश्यन्नस्तनिमेषाभ्यां, दृग्भ्या-15 १ सिखंड निवसीय, प्र, सिच्-वस्त्रं तस्य खंडस्तम्. २ श्रयाय-प्र. ३ स लोचनजनुःफलम्, प्र. सो भूभुजा ? ॥ २५ ॥गमतीर्थवत् । विमलाचलनाजनःफलम् ॥ २८ ॥ प
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy