________________
कुमारपालच०
॥ १०८ ॥
धनमान्नाय - हीनत्वान्नाप किंचन ॥ ६७३ ॥ मणिर्धनं ददौ नैव, जामाता बंचनाद् गतः । सुता सतीत्वमापन्ना, सर्वस्व|ष्टाऽन्वशेत सा ॥ ६७४ ॥ सुमित्रोऽन्येद्युराप्तेभ्यो रतिसेनां सतीमिव । श्रुत्वा स्मृत्वा च तं स्वीय – मणिग्रहणसंगै रम् ॥ ६७५ ॥ ऐंद्री लीलां वहन्नंगे, रंगत्तुंगतुरंगमः । स्वं दिदर्शयिषुः प्राप्तो, रतिसेनागृहागतः ॥ ६७६ ॥ युग्मम् ॥ यांतं जामातरं वीक्ष्य, वृद्धा द्वाराग्रमागता । प्रीतिप्रह्वा समाहासीत्, कोकिलेव कलस्वरा ॥ ६७७ ॥ मंत्रिपुत्रोऽपि तां वीक्ष्य, संभ्रांत इव नेमिवान् । कृत्रिमं साऽथ रुदती, जरती गदति स्म तम् ॥ ६७८ ॥ अध्वन्योऽपि पयः पातुं, सदने क्षणमास्थितः । अनुक्त्वा न प्रयात्येव, प्रयाणायोत्सुकोऽप्यलम् ॥ ६७९ ॥ त्वं तु निःसीमया भक्त्या, प्रीयमाणोऽप्यहर्निशम् । स्वामीव मंदिरे तिष्ठन्ननुक्त्वा जग्मिवान् कथम् ? ॥ ६८० ॥ सख्यं सार्धैपदीनं स्यात्, सतामिति जनश्रुतिः । जामाताऽपि कृतस्त्वं तु, तेन्नाद्यापि प्रपद्यसे ॥ ६८१ ॥ यदि नाजीगणस्त्वं मां, कठोरां हितशंसनात् । त्वदेकजीवां मत्पुत्री -मपि नाजगणः कथम् ? ॥ ६८२ ॥ 'घनेनेव लता' त्यक्ता, त्वया यीं त्वत्प्रियाऽऽश्रिता । तां दशां तत्तनुर्वक्री, शेषं किंचिदहं ब्रुवे ॥ ६८३ ॥ दह्यमानमिवोच्चैर्हृत्, पत्नी ते विरहाग्निना । धारालेनाश्रुवर्षेण, मेघमालेव सिंचति ॥ ६८४ ॥ त्वामेव परमात्मानं पश्यंती स्वहृदि स्थितम् । सा मीलितद्दगाभाति, योगिनीव वियोगिनी ॥ ६८५ ॥ वत्स ! स्वच्छ ! तदागच्छ, स्वदर्शनरसायनैः । समुज्जीवय भूयोऽपि, निर्जीवामिव तां प्रियाम् ॥ ६८६ ॥ अहो आंवर्जनायुक्ति - रहो कपटपाटवम् ।
१ पश्चात्तापं करोति स्म. २ प्रतिज्ञाम् ३ प्रेमनमा ४ सप्तमिः पदे उच्चारितैर्भवति इति साप्तपदीनं सख्यं - सौहार्दम् ५ सौहार्दम्. ६ दशाम्. ७ अश्रुवृष्टया - अश्रुप्रवाहेण ८ आवर्जनाया युक्तिः प्रसादनस्य रीतीत्यर्थः .
सर्ग. ५
॥१०८॥