________________
कुमारपालच०
॥१९१॥
SCADDARSHANIKAMGANGA
समन्वाना हृदि तां साक्षात्, परमात्ममयीमिव । अंतरंतःपुरं न्यस्य, पूजयामास चाऽऽदरात् ॥ ९३ ॥ तस्याः पुरः स्वर- सर्ग.९
ग्राम-मूर्च्छनाद्यतिबंधुरम् । उपवीणयति प्रीत्या, स्वयं पत्यावुदायने ॥९४ ॥ शीर्षादिभावसुभगं, सचतुःषष्टिहस्तकम् । द्वात्रिंशदंगहारं च, शताष्टकरणांचितम् ॥ ९५॥ रेसाद्यनुगुणं लास्य-तांडवाभ्यां विधा कृतम् । देवीव विदघे नृत्यमद्य(माढ्य)भक्तिः प्रभावती ॥९६ ॥ त्रिभिर्विशेषकम् ॥ एवं तत्प्रतिमापूजा-ध्याननाव्यादिकर्मभिः । पुण्यं कोशे न्यधाद् राज्ञी, विवेकस्य फलं ह्यदः ॥ ९७ ॥ कदाचन प्रभावत्यां, नृत्यंत्यां प्रतिमाग्रतः । गायनुदायनो मूढ, इव चस्खाल तालतः॥९८॥ ततो जाते रसच्छेदे, प्रिया प्रेयांसमूचुषी । निद्रालोरिव केयं ते, स्वामिन्ननवधानता ॥९९॥ स प्रोचे|ऽनवधानत्वं, न मे किंतु प्रिये ! तव । नृत्यंत्या वर्म निःशीर्ष, वीक्ष्य शून्य इवाभवम् ॥ १०॥ अतिस्पष्टमरिष्टं तन्मत्वा राज्ञी विशेषतः । धर्मध्यानं व्यधात् तद्धि, शोकापनुदमादिमम् ॥१०१॥ पूजाक्षणेऽन्यदा दास्याऽऽ-नीतं धौताशुकदयम् । दृष्टिधाम्त्याऽरुणं दृष्ट्वा, रुष्टा साऽऽचष्ट तामिति ॥ १०२॥ रेरे दासि ! त्वमानेष्ठा, मांजिष्टे वसने किमु । साऽवोचद् देवि ! पश्यैते, हिमांशुद्युतिनिर्मले ॥१०३ ॥ ततस्ते विशदे वीक्ष्य, पूर्वोत्पन्नेन तेन च । दुनिमित्तेन सा राज्ञी, मेनेऽल्पायुष्वमात्मनः ॥ १०४ ॥ विषानेभ्य इवात्युच्चै-विषयेभ्यो विरज्य च । पार्थिवं प्रार्थवांचक्रे, चारित्रार्थ |
छ खरादीमा लक्षणानि पंचत्रिंशत्तमे पत्रे विलोकनीयानि. १ वीणया उपगायति इति उपवीणवति, उपवीणयतीति उपवीणयन् तस्मिन् सति. २ क्रिया-चेष्टा-4॥१९१॥ P३ अंगविक्षेपम् , अंगुल्यादिविन्यासमैदेन नृत्यम्. ४ नृत्यवादित्रगीतामां, प्रयोगवशभेदिनाम् । संस्थानं ताडनं रोषः, करणानि प्रचक्षते, १॥ राजकंदर्पोक्ततालव्यव
स्थापकनाडनाविशेषाः करणानि. ५ भक्तिरसभेदानुसारि. ६ व्य-प्र. ७ कूर्पासोऽविवक्षितः, ८ राशा निःशीर्षवर्मदर्शनेन. ९ धौताशुकयोः रक्तत्वदर्शनेन.