SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ भूवन् , गवलश्यामलाननाः॥७९॥ नृपे तथैव तत्रस्थे, जाते च दिनयौवने । दिदृक्षुरिव तच्चित्रं, व्योममध्यं श्रितो रविः ॥ ८॥राज्ञो विज्ञाय वेलाऽति-क्रम भुक्तौ प्रभावती। तदाऽऽहानाय दासी स्वा-मादिदेश प्रियंवदाम् ॥८॥ तत्कौतुकनिरीक्षार्थ, राज्ञाऽऽज्ञप्ता तैया द्रुतम् । प्रभावत्यपि तत्रागात् , सर्वमूचे प्रियश्च तत् ॥८२॥ तच्छ्रुत्वा साऽवदद् II देवा-धिदेवा नेश्वरादयः। किंत्वहन् देवदेवेंद्र-वृंदवंद्यपदत्वतः॥८॥ तदवश्यं भवित्रीह, प्रतिमाहोचिताऽऽहती। अत एव व्यनत्त्येषा, न स्वमीशादिसंस्मृतेः॥ ८४ ॥ तदहं व्यंजयिष्यामि, मूर्ति जैनीमिमामिति । उक्त्वाऽर्चयत् समुद् सा, चंदनप्रसेवादिभिः॥८५॥ उच्चैरूचे च देवेषु, त्वं मुख्योऽसि जगत्पते ! । ग्रहेषु पद्मिनीनाथा-दपरः प्रवरः किमु ॥८६॥ यद्यहं तव धर्मेऽस्मि, सुलसेवानुरागिणी। तदा प्रसद्य मे देहि, निधिवन्निजदर्शनम् ॥ ८७ ॥ एवं तद्ग|दितैर्वाक्य-र्भानवीयैः करैरिव । भवति स्म समद्रोऽसौ. व्याकोशः पद्मकोशवत्॥८॥ अम्लानमाल्ययुग दीपा-लंकारा तत्र साऽऽहंती । प्रतिमा प्रकटा जज्ञे, लक्ष्मीः क्षीरोदधौ यथा ॥८९॥ तदाऽऽर्हतमतस्या सीत्, प्रभावत्या प्रभावना। यथा कुमुदखंडस्य, कौमुद्याऽतिप्रफुल्लता ॥ ९॥ ताहक्प्रभावसौरभ्य, दृष्टा जैनमतांबुजे । उदायनः क्षितिपति-रन्वरज्यद् द्विरेफवत् ॥ ९१ ॥ तं पोतवणिज सम्यक्, सत्कृत्यात्मीयबंधुवत् । उत्सवेन गृहेऽनैषीत्, प्रतिमां तां प्रभावती ॥ ९२॥6 नक्ककक १ महिष०. २ दास्या, तदा, प्र. ३ देवानां देवेन्द्राणां च वृन्दैवद्यौ पदौ यस्य स तस्य भावस्तस्मात्. * पूजोचिता-पूजनीया इत्यर्थः ४ आत्मानम्. ५ प्रसवः-पुष्पम्. ६ व्यागतः कोशात्-प्रफुल्लः-विकखर-उद्घटित इत्यर्थः- ७ उन्नतिः,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy