SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ पुनः पुनः॥ १०५॥ आगत्य समये स्वर्गाद, धर्म मां प्रतिबोधयेः। इति वाग्बंधातत्य, सोऽनुमेने व्रताय ताम्॥१०६॥ ततः प्रभावती श्रित्वा, श्रामण्यं गुरुसन्निधौ । तपोधनेन सौधर्मे, देवेभूयमुपार्जयत् ॥ १०७ ॥ प्रतिमां तां च शुद्धांत:६ स्थायिनी रानिदेशतः । कुनिका देवदत्ताख्या, दासी नित्यमपूजत् ॥ १०८ ॥ अथ प्रभावतीदेवो, विज्ञातप्राग्भवो दिवः। एत्य क्लेशेन सम्यक्त्वेऽ-स्थापयत् तमुदायनम् ॥ १०९ ॥ आरभ्य तदिनं विश्व-जनीने जिनशासने । मज्जा(महा)जैन इवोद्दाम-भावनोऽजनि भूमिभुक् ॥ ११०॥ | इतश्च कश्चिद् गाम्धार-मामा गान्धारदेशभूः। श्राद्धः शाश्वतचैत्यानि, नंतुं वैताढ्यमभ्यगात् ॥ १११ ॥ तन्मूले Mस स्थितो गंतु-मुपरिष्टादशक्नुवन् । आरराधोपवासैस्तां, घनैः शासनदेवताम् ॥ ११२॥ पूरयित्वेप्सितं तस्य, दत्त्वा चाष्टोत्तर शतम् । गुलिकाः कामदा देवी, तं तत्रैवामुचत् पुनः॥ ११३ ॥ देवाधिदेवमूर्ति तां, मंतुं बीतभयस्थिताम् । ध्यात्वा तां गुलिकां न्यास्थद्, गान्धारः स्वमुखांबुजे ॥ ११४ ॥ तदैव तत्प्रभावेण, स वीतभयमभ्यगात् । कुनाद्वारेण * तां मूर्ति, नमश्चके च भक्तितः॥११५ ॥ अम्बेधुः कष्टितो गात्रे, गान्धारस्तं च कुजिका । साधर्मिकातिवात्सल्या दचिकित्सत् स्वयामिषत् ॥ ११६ ॥ स ज्ञात्वा मृत्युमासन्नं, प्रभावोक्तिपुरस्सरम् । वितीर्य गुलिकाः कुना-करे व्रतम शिश्रियत् ॥ ११७ ॥ कुनिकाऽथ कुरूपा सा, ध्यात्वा स्वस्य सुरूपताम् । वकगुलिकाक्षेपाद्, देवीवाऽजनि दिव्यरुक् ॥ ११८॥ तया गुलिकया काये, सुवर्णाभा बभूव यत् । सुवर्णगुलिकेत्युक्ता, ततः सा सकलैजनैः॥११९ ॥ योग्यप्रिय १ वाचा बंधनं कृत्वा. २ देवत्वम्. ३ दितः, प्र. ४ कई सातं यस्य स कष्टितः-गात्रे कष्टितः संजातः.५ खभगिनीवत् . CANCY तो गुलिकां न्यास्थन्, गाना ॥ अन्येयुः कष्टितो गात्र, सरम् । वितीर्य गुलिकाः जानि दिव्यरुक्
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy