SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ROGRAMICROSSAE%AC%EC★ स्माता मार्दवनीरेण, शीलश्रीवरचीवराम् । सत्यकासकधरां, ध्यानद्वितयकुंडलाम् ॥ ५५ ॥ स्फुरन्नवपदीहारां, तपोभेदोरुमुद्रिकाम् । आनाययत् स्वतनयां, तत्र श्रीधर्मभूपतिः॥५६॥ युग्मम् ॥ ततोऽर्हदेवताऽध्यक्षं, करुणापाणिपंकजम् । ललौ चौलुक्यभूपालो, निर्मर्यादमुदम्बुधिः ॥५७॥ कृपया पाणिपझेन, स्पृश्यमानं निजं करम् । दृष्ट्वा तमानयन धन्यमेवमूचे नृपो हृदा ॥ ५८॥ पाणे ! त्यक्ताऽन्यकृत्येन, यदपूजि जिनस्त्वया। तत्प्रभावाद् बभूवास्याः। कराश्लेषस्तव ध्रुवम् ॥ ५९॥ अनीषल्लंभमन्येन, धर्मपुत्रीकरांबुजम् । आसाद्य दक्षिणत्वं स्वं, त्वया द्वेधाऽपि दर्शितम् ॥ ६॥ श्रुतोदितश्राद्धगुण-प्रशस्यकलशावलिम् । कृत्वा श्रद्धामयीं वेदी, विचारोच्छ्रिततोरणाम् ॥ ६१॥ उद्दीप्य च प्रबोधाऽग्निं, तर्पितं तत्त्वसर्पिषा । तं प्रदक्षिणयामास, सवधूकं नृपं गुरुः ॥ ६२ ॥ युग्मम् ॥ जामात्रे ददिवान् धर्मः, पाणिमोचनपर्वणि । सौभाग्यारोग्यबह्वायु-र्बलसौख्यान्यनेकधा ॥ ६३ ॥ एवं महेन संवृत्ते, पाणिग्रहणमंगले । प्रणेमिवांसं राजार्ष, सूरिराजोऽन्वशादिति ॥ ६४ ॥ या प्रापे न पुरा निरीक्षितुमपि श्रीश्रेणिकाद्यैर्नृपः, कन्यां तां परिणायितो|ऽसि नृपते ! त्वं धर्मभूमीशितुः। अस्यां प्रेम महद् विधेयमनिशं खंड्यं च नैतद्वचो, यस्मादेतदुरुप्रसंगवशतो भावी भृशं निवृतः ॥६५॥ (शार्दूलविक्रीडितम् ) ततः स्वसदनं प्राप्य, तदैव धरणीधवः। विधिना करुणादेव्याः, पट्टबंधविधि व्यधात् ॥६६॥ सर्वोत्कृष्टैर्गुणैर्दृष्ट्वा, तां चेतःप्रीतिकारिणीम् । निजैप्रकृतिवद् भूपः, कदाचन मुमोच न ॥६७॥ अतिप्रीतं १ कृपाहस्तद्वारा. २ निजहस्तम्. ३ दुष्प्रापं. ४ चतुरत्वं वामेतरत्वं च. ५ खकीयं. ६ सौभाग्य-सर्वजीवप्रियत्वम्. . दीर्घम् . ८ संपूर्णे सति. शिक्षयामास. १. सुखी. ११ पट्टराद्वीपदविधिम्. १२ निजखभाववतू. REACCIRCRACTROCCESCRSCR-00-00-
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy