________________
कुमारपालच०
॥ ६ ॥
श्वत्वं । श्रीसूरिः समभावयत् ॥ १५६ ॥ महस्वितेव माणिक्ये । पुष्पे सुरभितेव च ॥ शास्त्रप्रवेशतस्तस्मिं - चातुरी व्यलसत्स्वयं ॥ १५७ ॥
अथ श्रीमालवंशीयं । जिनशासनवत्सलं | आइयोदयनामात्यं । देवचंद्रो गुरुर्जगौ ॥ १५८ ॥ श्रेष्ठिचाचिगपुत्रोऽयं । चंगदेवो व्रतेऽस्तिधीः ॥ त्वया विधाप्यतामस्य । मंत्रिन् ? दीक्षामहामहः ॥ १५९ ॥ तदात्मनीनं विज्ञाय । स्पृहयालुः शुभाय सः ॥ पुण्याकृष्टिमिवोत्कृष्टां । तत्सामग्रीमचीकरत् ॥ १६० ॥ अथ श्रीवर्धमानस्य । प्रासादे सादितांहसि ॥ | माघमासस्य धवले । पक्षे चातुर्दशेऽहनि ॥ १६१ ॥ रोहिण्यां शनिवारे च । रवियोगे त्रयोदशे ॥ सप्तग्रहबलोपेते । वृषलग्ने शुभेशके ॥ १६२ ॥ श्रीसूरिमंत्रस्मरण - स्मेरातिशयशालिना ॥ सूरिणा निजहस्तेन । चंगदेवः स दीक्षितः ॥ १६३ ॥ त्रिभिर्विशेषकं ॥ यशसा वदनेनापि । द्विरनेन जितः शशी ॥ इतीव सुरिस्तस्याख्यां । सोमचंद्र इति व्यधात् ॥ १६४ ॥ पापं लुनीहि लक्ष्मीं स्वां । पुनीहि सुकृतं श्रय ॥ दीक्षामहमातत्य । चकारोदयनो न किम् ॥ १६५ ॥ अपर्यध्ययनीभूय । | सोमचंद्रोऽथ सांद्रधीः ॥ अध्येतुं प्रावृतत्सर्व-शास्त्राणि गुरुसन्निधौ ॥ १६६ ॥ गुरुरप्यन्य शिष्येभ्यस्तमुच्चैरध्यजीगपत् ॥ | सत्पात्र एव हि प्रायः । प्रयासं श्रयते सुधीः ॥ १६७ ॥ अल्पीयसापि कालेन । सोऽधीयन्नप्रमद्धरः ॥ प्रज्ञायानेन संजज्ञे । | पाणो वाङमयां बुधेः ॥ १६८ ॥ पदानुसारिप्रज्ञाढ्यान् । सूरीन् श्रुत्वान्यदाग्रिमान् ॥ विद्वद्वृंदारकोऽप्येष | चिंतयामास | चेतसि ॥ १६९ ॥ स्तुत्याः सर्वेऽपि पूर्वे ते । सूरयो गुणभूरयः ॥ बुद्ध्या पदानुसारिण्या । ये पूर्वाण्यध्यगीषत ॥ १७० ॥ १ शुभाशयः, प्र. २ इत्याशिषं ददौ सूरिः सचिवायाऽपि प्रौढवाक्=प्र.
सर्ग. १
॥ ६॥