SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ | ऐदंयुगीनानस्मान् धिक् । सर्वथा मंदमेधसः॥ क्लिश्नन्ति ये गुरून् गाढं। विदंति च न किंचन ॥ १७१॥ ततो यद्यपि शास्त्रज्ञो । जज्ञेऽहं तदपि स्वयं ॥ श्रित्वा कश्मीरदेशं तं । तोषयिष्यामि भारती ॥ १७२॥ सोमचंद्रेण विज्ञप्ते । स्वेप्सिते तस्य तद्गुरुः ॥ प्रपेदेऽतिशयात् ज्ञात्वा । शारदासंमुखागर्म ॥ १७३ ॥ उजयंतावताराख्ये । चैत्येऽथ प्रवरे दिने । कश्मीरानप्रति स स्मेरः । प्रस्थाने स्थितवान्मुनिः॥१७४ ॥ मांत्रिकं स्नानमाधाय । स्मरन् ज्योतिर्मयं महः ॥ तस्यामेव निशि ध्यानं । स सारस्वतमादधौ ॥ १७५ ॥ विश्वस्याभयदां न्यस्त-पुस्तिका वामके करे ॥ भक्तभ्यो वरदां साक्ष-मालामपि च दक्षिणे ॥ १७६ ॥ कर्पूरपूररोचिष्णु-द्युतियोतितदिङ्मुखीं ॥ उन्निद्रपद्मपत्राभ-नेत्रकांतिविलोकिनीं ॥ १७७॥ हृदये ध्यायतस्तस्य । भास्वरां वागधीश्वरी ॥ कृष्टेव तेन ध्यानेन । सा साक्षादजनि क्षणात् ॥ १७८ ॥ त्रिभिर्विशेषकं ॥ ब्रह्मपुत्री सवित्रीव । हक्पातः स्नेहसांद्रितैः ॥ प्रसादं बोधयंतीव । सैबैमाचष्ट तं मुनि ॥ १७९॥ कश्मीरान् मास्म यासीस्वं । वत्स! मत्तोषहेतवे ॥ त्वद्भक्तिप्रणिधानाभ्यां । प्रीतास्म्यत्रापि संप्रति ॥ १८०॥ सिद्धसारस्वतो भूयाः। प्रसादेन ममाधुना ॥ इत्युदीर्य तीरोऽधत्त । देवी विद्युदिव क्षणात् ॥ १८१ ॥ तदा च स्फुरितस्फार-सारसारस्वतोदयात् ॥ प्रज्ञा सर्वपथीनाभू-त्तस्य भानोरिव प्रभा ॥ १८२ ॥ अतिवाह्य निशाशेषं । सरस्वत्याः स्तवैनवैः॥ कृतकृत्यः समायासीत् । प्रातः स गुरुसन्निधिम् ॥ १८३ ॥ वाक्प्रसादात्तमालोक्य । दीप्रमप्रीयतोच्चकैः ॥ गुरु ग इवोन्निद्र पद्मं शूरप्रकाशतः॥ १८४ ॥ विज्ञप्ते रात्रिवृत्तांते । सोमचंद्र गुरुः स्वयं ॥ तुष्टस्तष्टाव कः पात्रं । न स्तुवीत गुणोत्तरं १ कात्यव. प्र. २ स्पष्टमाचष्ट. प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy