SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ MROASALAAAAAD विज्ञपयामासु-महाजनपुरस्सराः॥४०८॥ उपद्रवश्चेत् त्वद्राज्ये, रेणुरब्धौ तदा न किम् ? । अन्यायस्तु भवेत् कीदृग, न स्वप्नेऽप्यन्वभूयत ॥ ४०९॥ मंडले तंपनस्यापि, जातु संतमसं लसेत् । न तु त्वदुदये स्वामिन् !, किंचिदप्यसमंजसम् ॥४१०॥ किंतु श्रेष्ठी कुबेराख्यः, श्रिया हसितवासवः। आगच्छंस्तुच्छभाग्यत्वाद्, भग्ने पोते मृतोऽम्बुधौ ॥४११॥ तनोत्यमंदमानंद, निष्पुत्रस्तत्परिच्छदः। तद्धनं ग्राह्यतां कुर्मो, यथा तस्योद्धदेहिकम् ॥४१२॥ कियत् तदिति पृष्टास्ते, वदंति स्मातिपुष्कलम् । कौतुकेन ततो भूप-स्तैः समं तद्गृहं ययौ ॥४१३॥ वीक्ष्य तत्र कुबेरस्य, कुटुंबं शोकसंकुलम् । एवं संबोधयामास, सूक्तैर्वैराग्यनिर्भरैः॥ ४१४ ॥ जीवितव्यं नृणां श्वासो, वायुप्रकृतितश्चलः। निर्गच्छन् प्रविशन्नेव, सोऽपि तिष्ठति संततम् ॥४१५॥ यदैव दैवयोगेन, निर्गत्य प्रविशेन सः। तदैव देहिनां मृत्युः, से किं दूरेऽस्ति कुत्रचित्? ॥४१६॥ नवद्वारे शरीरेऽस्मि , श्वासवायुश्चलोऽप्यलम् । यत् तिष्ठति कियत्काल-मपि तत् किं न कौतुकम् ॥४१७॥ विसूचिका विषं शूलं, शस्त्रानलजलादयः । हरंति जीवितं सद्यो, वाताः पंक्त्रिमपत्रवत् ॥ ४१८ ॥ प्राणिनोऽन्यपथा-14 ध्वन्या, व्याघुटंति यदा तदा । कल्पांतेऽपि पुनर्नैव, कालधर्मपथं गताः॥ ४१९ ॥ कोटिशोऽथ सुवर्णानि, कलधौतानि लक्षशः । सहस्रशो मणीनुष्ट-वाश्चादीनि पूगर्शः॥४२०॥ हस्तिनः कतिचिद् दास-वणिक्पुत्राननेकशः। धान्यपूगांशुकक्षौम-चंदनादीनि राशिशः॥४२१॥ गेहहहप्रवहण-शंतांगादीनि भूरिशः। कुबेरस्य गृहे पश्यन् , विस्मेरः प्रोक्तवान् नृपः॥ ४२२ ॥ त्रिमिर्विशेषकम् ॥ देवः कुबेर एवात्र, कुबेरोऽयमवातरत् । अन्यथा कथमेतस्य, लक्ष्मीरीहा १ अस्माभिरितिशेषः, २ सूर्यस्य. ३ वैराग्यव्याप्तः श्रेष्ठवचनैः. ४ वातखभावात्. ५ मृत्युः.६ परिपक्क०.७ रजतानि. ८ समूहशः. ९ वन.. १. रथादीनि. HALKARACTECORRECE%% कु..च.३०
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy