SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सर्ग. ३ कुमारपालच० ॥५३॥ BASAHOSAURUSSARO BEX ॥२४४ ॥ क्वचिन्निशाचरीवक्त्र-खाद्यमानशबामिषम् । कचिद्भयंकरस्फार-शिवाफेत्कारभारितम् ॥ २४५ ॥ क्वचि च्चित्योच्छलछ्म-भूमस्पृष्टनभोऽगणम् । श्मशानमागमत्प्रेत-पतिक्रीडावनोपमम् ॥ २४६ ॥ पंचभिः कुलकम् । तत्रैक शबमानीय, तद्वक्षसि निवेश्य च । वह्निकुंडमखंडार्चिः-सप्तार्चिः परिपूरितम् ॥ २४७ ॥ तन्नाभौ स्वयमासित्वा, कृत्वा चार्चा यथाविधि । मेरुवत्स स्थिरो मंत्रं, स्मरन् होतुं प्रचक्रमे ॥२४८॥ युग्मम् ॥ तं कुर्वतं तथा होम, प्रेक्ष्य प्रेतवनाधिपः। वक्रदंष्ट्राभिधः क्षेत्र-पालः काल इवाकुपत् ॥ २४९ ॥ ऊर्ध्वमूर्ध्वस्फुरत्पिंग-केशस्तुंगतमाकृतिः । अधित्यकाज्वलद्दावज्वालाजाल इवाचलः ॥२५० ॥ दीर्घदंष्ट्रावलीव्याप्त-व्यात्तवऋविभीषणः । अंतर्जाग्रभुजंगौघ-कोटरदुरिवोच्चकैः ॥२५१ ॥ अभ्रंकषेण शीर्षेण, तारकान् पातयन्निव । मुखोद्गतानलोल्कोभि-स्तमः कवलयन्निव ॥ २५२ ॥ दूरप्रसृमरैदोभिः, पादपानाकृषन्निव । निबिडैश्चरणन्यासैः, क्ष्मामधस्तात्क्षिपन्निव ॥ २५३ ॥ अंजनाद्रिरिव श्यामो, मंदरादिरिवाकृशः। प्रादुरासीत्पुरस्तस्य, क्षेत्रपालः करालदृक् ॥२५४॥ पंचभिः कुलकम् ॥ तं स क्षोभयितुं दुष्टो, नेदिष्ठैः पर्वतैः सह । काश्यपी कंपयामास, लतावत्पादघाततः॥२५५॥ ब्रह्मांडभांडसंभेद-शक्तान किलकिलारवान् । स चकार परोलक्षान् , सिंहनादान् यथा भटः ॥२५६॥ भूकंपात्तन्निनादाच्च, सिंहध्वानादिव द्विपाः॥नश्यति स्म पिशाचाद्या, अपि क्रोष्ट्रादयः किमु | ॥२५७ ॥ करालान् यमदंष्ट्राव-द्धावमानान् जिघत्सया । कारं कारं भुजंगादीन, भापयामासिवान् स तम् ॥ २५८ ॥ मंत्रः सोपद्रवोऽस्तीति, गुरुवाक्यस्य संस्मरन् । क्षोभ्यमाणोऽपि तेनेत्थं, चौलुक्यो नैव चुक्षुभे ॥ २५९ ॥ प्रत्युत स्थिरता १शुगालशब्दयुतम्. २ बहुत्व. ३ श्मसानाधिपः. ४ पर्वतस्योपरिभूमिः.५ तेजःपुंजैः. भगालादयः, ७ कृत्वा कृत्वा-विकुयं विकुळ. ROCROSECROMAEECAUGUS
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy