________________
त्यसंश्रयात् । स्वरवृद्धेश्च ते भावी, जिनभक्तेमहोदयः॥ २२९ ॥ तद्वाणीश्रवणात्तुष्ट-स्तं संतोष्य धनादिना । स जटाधदरतां हित्वा, ययावुज्जयिनी पुरीम् ॥२३०॥ तत्र दृष्ट्वा कुटुंबं स्वं, पृष्ठे प्राप्तान द्विषद्भटान् । मत्वा नंष्ट्वा च चौलुक्यः, कोल्ला
पुरमुपेयिवान् ॥ २३१॥ तत्र भ्रमन् स सर्वार्थ सिद्धिनामानमुत्तमम् । करंडमिव सिद्धीना-मेकं योगींद्रमैक्षत॥२३२॥ नत्वाऽग्रतो निविष्टं तं; समाप्य ध्यानमात्मनः । प्रसेदिवद्भ्यां नेत्राभ्यां, पश्यन् योगीश्वरो जगौ ॥ २३३ ॥राज्याहलक्षणाढ्यस्य, तवावस्था किमीदृशी । न हि जात्यस्य रत्नस्य, धूलिधूसरतोचिता ॥ २३४ ॥ स बभाषे ममावस्था, योगिनासीदियच्चिरम् । भानोरिव निशाऽनेशत्, परं त्वदर्शनादसौ ॥ २३५॥ मेघालोकाद्यथा हर्ष-प्रकर्षः स्याच्छिखंडिनः । तथा त्वत्संगमादस्मा-न्ममापि हृदयंगमात् ॥ २३६ ॥ प्रसद्य दीयतां कश्चि-न्मंत्रः स्फूर्जत्तमो मम । चिंतामणिरिव येतो, विभवेद्विभवो महान् ॥ २३७ ॥ योगी तुष्टस्तमाचष्ट, द्वौ मंत्री स्तो मदंतिके । साम्राज्यदायी तत्रैको, यथेष्टद्रव्यदः परः |॥ २३८ ॥ परं सोपद्रवी गाढं, यदि साधयितुं क्षमः । तादत्स्व तयोर्मध्या-देकं मंत्रं यदृच्छया ॥ २३९ ॥ महाप्रसाद इत्युक्त्वा, योगींद्राद्राज्यदायिनम् । मंत्रं राज्यमिवादत्त, कुमारो विधिपूर्वकम् ॥ २४०॥ कृतत्रिक्षपणः शुद्ध-ब्रह्मवान् ब्रह्मचारिवत् । जपति स्म स षण्मासी, तं मंत्रं विजने क्वचित् ॥ २४१॥ अथ कृष्णचतुर्दश्यां, प्रथमे प्रहरे निशः। स देहवानिवोत्साहः, पूजोपकरणान्वितः॥२४२॥ क्वचित्करालकंकालं, क्वचिद्वेतालसंकुलम् । क्वचित्स्फुरचितिज्वालं, क्वचित्कुणपपूरितम् ॥ २४३ ॥ क्वचिन्नृत्यत्पिशाचौघं, क्वचित्प्रेतप्रियंकरम् । क्वचिद् दुःशाकिनीकीर्ण, क्वचिद् भूतशतांचितम् १प्रसन्नाभ्याम्. २ मयूरस्य. ३ अभवदिति शेषः ४ मंत्रात्. ५ रात्रः ६ भयानक-त्वकूमांसरहितशरीरारंभकास्थिसमूहम्. ७ शबपूरितम्.
4002040SAMAN