SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सोऽधात्, ध्यानकर्मणि निर्भयः । वात्यया चाल्यमानोऽपि किं चलत्यचलाधिपः ॥ २६० ॥ खलवन्निष्फले तस्मिन्, क्षेत्रपाले गते सति । मंत्रकर्मणि पूर्णे च, जापहोमपुरस्सरम् || २६१ ॥ तेजोभिः सृजतीव द्यीं, सूर्यराजीमयीं तदा । प्रादुरासीत्पुरो लक्ष्मीः, पुण्यश्रीरिव देहिनी ॥ २६२ ॥ युग्मम् ॥ दारिद्र्यभंगजननीं, जननीमिव तां रमाम् । विठोक्य | विकसद्वक्र - चौलुक्यो नमति स्म सः ॥ २६३ ॥ कथयामास सा वत्स ! मंत्राधिष्ठायिनी स्वयम् । श्रीरहं त्वां प्रपन्नाऽस्मि, | विस्मेरविभवास्पदम् ॥ २६४ ॥ क्षेत्र पप्रकृतैः क्षुद्रो-पद्रवैर्ध्रुववत्तव । निश्चलं सत्त्वमालोक्य, प्रसन्नाऽस्मि वरं वृणु ॥ २६५ ॥ | कुमारः स्माह पुण्यद्रु - रद्यैवांकुरितो मम । दुर्लभा कल्पवल्लीव, मया यत्त्वमलभ्यथाः ॥ २६६ ॥ गार्हस्थ्यं स्थितिमेति, यात्युपचयं पुण्यं, प्रतिष्ठैधते, साफल्यं दधते कलाः प्रतिकूलं सौख्यं समुन्मीलति । सर्वस्योपकृतिः स्फुरत्यपमला कीर्तिः समुज्जृंभते, विश्वं लक्ष्मि ? भवत्कटाक्ष कणिकाच्छोटेन जीवत्यदः ॥ २६७॥ वाणी सरस्वती ख्याता, त्वं तु सारस्वती ततः । अकारेणाधिका मातः !, कथं नासि गुणैरपि ॥ २६८ ॥ त्वदाश्रितजनस्तोत्रैः, पुष्णती स्वसुतान् बुधान् । भारती स्पर्धते यत्त्वां पठन्मूर्खेव सा ततः ॥ २६९ ॥ त्वदंगीकारतो जज्ञे, कृष्णोऽपि पुरुषोत्तमः । शंकरोऽपि कपालित्वं, प्रपेदे त्वदनादरात् ॥ २७० ॥ कमले ! चेत्प्रसन्नाऽसि मय्यात्मीयतनूजवत् । फलं वत्सलतावल्ल्या - स्तदैश्वर्यं समर्पय ॥ २७१ ॥ सा श्रीर्विश्राणयामास, वरमद्यतनाद्दिनात् । मनोरथतरुस्तेऽसौ पंचवर्ष्या फलिष्यति ॥ २७२ ॥ इत्युदीर्य प्रयातायां, | देव्यां वारिधिजन्मनि । कुमारो योगिने तस्मै, प्रातस्तद्वृत्तमूचिवान् ॥ २७३ ॥ योगी हृष्टस्तमाचष्ट, त्वं नूनं भाग्यवा १ आकाशम् २ प्राप्ता. ३ मर्यादां स्थिरताम् ४ प्रतिक्षणम् ५ सूक्ष्मांशाच्छोटेन. ६ सरखतः समुद्रस्येयम् ७ ददौ. 45644
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy