SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ल कुमारपालच० ॥५४॥ नसि । यस्येदृग्विषमो मंत्रः, सिद्धः सद्धर्मकर्मवत् ॥ २७४ ॥ सिद्धमंत्रः स योगींद्र, प्रणम्य विहरन् महीम् । कल्याणदेशश्रीसुधू-कांची कांचीपुरीं ययौ ॥२७५ ॥ तद्गोचरे चरन्नीर-हारिणीनां मृगीदृशाम् । स्तोमं मिलितमालोक्य, चौलुक्यस्तत्र जग्मिवान् ॥ २७६ ॥ द्विषता छिन्नशीर्षस्य, कबंधं तत्र कस्यचित् । तासां संप्रेक्षमाणानां, शुश्रुवांश्चेति जल्पितम् ॥ २७७ ॥ अहो केशकलापोऽस्य, द्राधीयान् कोऽपि दीप्यते । अहो दीर्घतमौ कर्णा-वहो कूर्चा महाधनः ॥ २७८ ॥ अहो विरलता दंत-श्रेणेमुक्तावलिश्रियः । अहो व्यसनिता काऽपि, नित्यं तांबूलभक्षणे ॥२७९ ॥ युग्मम् ॥ |श्रुत्वा तद्विस्मितोऽध्यासी-कुमारोऽस्य शिरो विना । स्थिति केशकलापादे-रेतां जानंत्यः कथम् ॥२८० ॥ स 8 मृगाक्षीरथाप्राक्षी-ददृष्टाऽप्यस्य मस्तकम् । स्वरूपं कथमेताहग, भवत्यः परिचिन्वते ॥२८१॥ स्मित्वाऽवोचंत ताःप्रेक्ष्य, विदंत्यपधियोऽपि हि । सुधियस्तु त एव स्यु-थैरप्रेक्ष्यापि लक्ष्यते ॥ २८२ ॥ पृष्ठेऽस्य कबरीघर्षः, स्कंधयोः कौंडलो किणौ । आनाभिहृदि गौरत्वं, रक्तप्रांता कनिष्ठिका ॥ २८३ ॥ अंगुष्ठश्चर्णधवलो, दृश्यमानाः क्रमादमी । दीर्घादित्वं कबयोदे-निःसंदेहं प्रचक्षते ॥ २८४ ॥ युग्मम् ॥ तया स्त्रैणधिया प्रीत-श्चौलुक्यो जग्मिवांस्ततः । तडागं पालिरूढार्ग, संज्ञ याऽमृतसागरम् ॥ २८५॥ तत्र स्नानं समासूच्य, चैत्ये तत्तीरभासुरे । एकं मस्तकमद्राशी-त्पूज्यमानं सं देववत् ॥२८॥ प्रश्नयामासिवांश्चैकं, तत्रत्यं कंचिदर्चकम् । विहाय देवतामूर्तीः किमेतत पूज्यते शिरः ॥ २८७ ॥ स स्माहाकयेतां देव!, सेयं कांचीपुरी पुरः॥ गता यज्जयभीतेव । स्वर्लोकममरावती ॥ २८८॥ मकरध्वजरूपोऽस्ति, भूपोऽत्र मकरध्वजः। मुनी १ कर्णाटकदेशस्य शोभारूपस्त्रियाः कटिमेखलाम्. २ स्त्रियः ३ चिहे. ४ सदैव तत्. प्र.५ पुरा, प्र. ६ मकरध्वजः-कामः मुनीनाममान्योऽयं तु मान्यः इत्याश्चर्यम्. SEASCRISOASIGACIO ॥५४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy