SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ हामहाः ॥ ३२०मानं पट्टहस्तिनम् ॥ ३० ॥ ३१८ ॥ ततो भिस्कुंभान् कर-5 केचित स्वजीवितव्येऽपि, निरपेक्षतया भटाः। नेदिष्ठान्यपि वर्माणि, नैव वर्मसु पर्यधुः॥ ३१७ ॥ अंभस्कुंभान् करं-1 भांश्च, प्रगुणीकृत्य तत्क्षणम् । अन्वेतुं स्वप्रियान् प्रीत्या, ससजे सुभटीजनः ॥ ३१८ ॥ ततो द्विपक्रियानिष्ण-श्याम-18 लाधोरणाश्रितम् । श्रित्वा कलभपंचास्य-नामानं पट्टहस्तिनम् ॥ ३१९ ॥ तत्कालकल्तिानल्प-समराकल्पभासुरः। चापादिशस्त्रसंपर्क-तळमाणमहामहाः ॥ ३२० ॥ सामंतैर्विक्रमाक्रांत-रन्वितः केल्हणादिभिः । रणस्थलमलंचक्रे, है जिष्णुवद् गुर्जरेश्वरः ॥ ३२१॥ त्रिभिर्विशेषकम् ॥ अर्णोराजोऽपि निार्ज-भ्राजिष्णुभुजवैभवः । कुंभिकुंभस्थलारूढः, प्रौढसैन्यसमन्वितः ॥ ३२२ ॥ शत्रुसामंतभेदेन, जिंतकाशीव चेतसि । प्राविक्षत्प्रर्धनावन्यां, दुर्योधन इवोद्धतः ॥३२३॥ युग्मम् । पूर्व रजस्ततस्तूर्य-शब्दस्तदनु सैनिकाः। अन्योन्यमिति सैन्ये ते, संजग्माते उभे अपि ॥ ३२४ ॥ सैन्यद्वयेऽपि तूर्याणि, रणंति स्म सहस्रशः। अन्योन्यमाह्वयंतीव, योधान् युद्धार्थमुद्धतान् ॥ ३२५ ॥ नवरं रणतूर्याणां, श्रवणात् पुलकैः सह । योधा युधे (पि) समुत्तस्थुः, किंतु तन्मूर्धजा अपि ॥३२६॥ वीराणां विक्रमक्रीडां, स्तुवंतो वन्दिनस्तदा । कातराणामपि स्वांते, रणप्रौढिमेददृढन् ॥ ३२७ ॥ वीरंमन्यास्तमासाद्य, हृत्प्रियंकरणं रणम् । बुभुक्षिता इवाहारं, जज्ञिरे 5 प्रमदोद्धराः ॥ ३२८ ॥ कादंबिनीकदंबाभे, प्रसर्पति रजोभरे । पद्गानां खड्गलेखाभि-र्दीप्राभिर्विधुदायितम् ॥ ३२९॥ परस्परेण वृण्वन्तो, विवृण्वन्तो निजोर्जितम् । अथाग्रसैनिकाः सैन्य-द्वये योद्धं डुढौकिरे ॥३३०॥ धनुषां च परेषां च, १ अति निकटस्थानि. २ देहेषु. ३ श्यामलनाना हस्तिपकेन आश्रितम्. ४ तत्कालरचितानल्पयुद्धवेषदीप्यमानः, ५ अर्जुनवत्, ६ निर्व्याजो निष्कपटः, है. जितेन-जयेन काशते-प्रकाशते इति. जितकाशी तद्वत, ८ युद्धभूमौ, ९ महत्ताम्, १० मेघमालासमूह सदशे. ११ मीलंतः, ११ शत्रुणाम्. CAHAHAHARLAOS
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy