SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सर्ग.. कुमारपालच. ॥१२५॥ दीन् प्रति दीनगीः॥ ३५९ ॥ प्रणाममेतमन्त्यं मे, जानीतं पितरौ युवाम् । क्षमेथां च मदागस्तद्, यत् कृतं शैशवादपि ॥३६०॥ अन्याऽतिधन्या कन्या स्या-दिंदुज्योत्स्नेव मोदिनी । पित्रोरहं तु पापात्मा, तपश्रीरिव तापिनी॥३६॥ हे स्वसारोऽनलेऽसारं, हुत्वा जीवितमात्मनः । तथा शीघ्रं समायात, यथा मिलत मे पुरः ॥ ३६२ ॥ सख्यः! सख्येन टू यत् किश्चिद्, युष्मदग्रे जगे मया । तदरम्यमपि क्षम्य-मंतिमोऽयं कृतोऽञ्जलिः ॥ ३६३ ॥ त्रिःपरीय चितां प्रीत्या, टू गुणश्रीमन्दमूचुपी । जगत्साक्षिस्तथा लोक-पालाः! शृणुत मद्वचः ? ॥३६४॥ पापिन्याऽत्र मया प्राप्तो, न प्रेयांस्तद् भवांतरे । स एव मे प्रियो भूयाद्, भवदीयप्रसादतः ॥ ३६५ ॥ युग्मम् ॥ ततो नृपादिभिर्लोक-हाकारमुखराननैः। मा मेति वार्यमाणाऽपि, यावद् विशति सा चिताम् ॥३६६॥ तावद् विज्ञाय तल्लोकात्, पुण्यसारोऽतिविह्वलः। तत्रागा बाष्प-18 टू पूरेण, कुर्वनुदकिलामिलाम् ॥ ३६७ ॥ गुणश्रीपरिवारेण, स्नेहेन च भृशेरितः । स कृपारसपाथोधि-स्तां प्रति प्रोचि-18 वानिति ॥ ३६८ ॥ किमेतत् कर्म निर्मातुं, भवान् मित्रोपचक्रमे । ईदृग्भवादृशः कश्चिद्, विपश्चिच्चकृवान्न हि ॥ ३६९ ॥ मामभ्यधाः सदाऽपि त्वं, तवाकथ्यं न किंचन । यद्येतत् सत्यमाचक्ष्व, प्रविशस्यनलं किमु ॥ ३७०॥ मृत्युहेतुमनु-I त्वैव, वियतेऽथ त्वया सखे!। तदा मयाऽपि मर्तव्य-मवश्यमिति मे ग्रहः ॥ ३७१॥ निवारयति पातकाद्, दिशति मार्गमत्युज्वलं, न मर्म वदति क्वचित्, प्रकटयत्यशेषान् गुणान् । समुद्धरति संकटाद्, वहति हर्षमभ्युन्नती, सह त्यजति १सूर्यश्रीः--सूर्यताप इव, तापिनी-संतापकारिणी. २ त्रिवार परिभ्रम्य. ३ उक्तवती. ४ हे सूर्य ! ५ उदकयुक्ताम्, (पंकिलाम् ). हे मित्र. *H. आरब्धवान्, “ कृतवान्, प्र. ९भाग्रहः-प्रतिज्ञा. Hoteostesleesheestefees ॥१२५॥ KOHUS*
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy