________________
।
आत्मा प्रयातु सकलं कुलमंतमेतु, न स्वीकृतं कृतधियस्तदपि त्यजति ॥ ३४६ ॥ ( वसंततिलकावृत्तम् ) तदद्य दुःखमोक्षाय, निर्माती धर्मकर्मवत् । मरणं वारणीयाऽहं न भवद्भिः कथंचन ॥ ३४७ ॥ एवं स्वजनमात्रोध्य, चितां श्रीखंडसंचिताम् । गुणश्रीस्तत्क्षणं तेन, बहिर्देशे व्यदीधपत् ॥ ३४८ ॥ परिच्छदेन सर्वेण, शोकोच्चैः स्रवदश्रुणा । वृता साऽश्वोरैंसं श्रित्वा, चितापार्श्वमशिश्रियत् ॥ ३४९ ॥ तन्निशम्यानलज्वाला - जालाऽऽचांतेव चेतसि । प्रतिरोमज्वलत्तीव्रशूचीविद्धेव वैर्मणि ॥ ३५० ॥ धारालेनाश्रुवैर्षेण, वार्षिकांबुदवीचिवत् । प्रथिष्ठमपि पंथानं, जनयंतीव पंकिलम् ॥३५१ ॥ प्राणान्निष्काशयंतीव, मुष्ठिघातैरुरस्तटात् । तदैव विह्वलीभूता, पृष्ठे मदनवत्यगात् ॥ ३५२ || त्रिभिर्विशेषकम् ॥ राजाऽपि राजलोकोऽपि, पौरवर्णोऽपि दुःखितः । तत्राऽऽजगाम वेगेन, "तं निवारयितुं मृतेः ॥ ३५३ ॥ ऊचे समर सिंहस्तां । वत्स ! स्वजनवत्सल । अकस्मात् कारणात् कस्मा - म्रियसे । क्लेशवानिव ॥ ३५४ || न्यूनं किमपि ते वस्तु, न्यक्कृतोऽस्यथ केनचित् । इष्टानां किमुतानिष्टं किं ते दुःखं निवेदय १ ।। ३५५ ॥ इदं वपुरियं लक्ष्मी-रियं स्त्री स्वजनोऽप्ययम् । एतत् सर्व वृथैव त्वं न परित्यक्तुमर्हसि ॥ ३५६ ॥ त्वं वाङ्मयाब्धिपारीण - स्त्वं कलैकनिकेतनम् । स्वं दक्षशेखरो ब्रूहि, किमित्येवं व्यवस्यसि १ ॥ ३५७ ॥ एवं नृपेण पौरैर -प्युच्चैः पृष्टाऽपि सा तदा । विगोपनभिया स्वस्य, नाब्रवीन्मृत्युकारणम् ॥ ३५८ ॥ पंचभिः कुलकम् ॥ ततः कर्णे लगित्वाऽऽत्म - वृद्धानां श्रेष्ठिनंदिनी । उवाच वाचिकीन्येवं, पित्रा -
१ नाशम्. २ मुख्याश्वम्. ३ व्याप्ता. ४ शरीरे ५ दृष्टया ६ पृथुतरम्, प्रविष्टम् प्र. ७ गुणचंद्र तां प्र-गुणश्रियम् ८ गुणश्रियम् ९ तिरस्कृतः. १० मातृपित्रादीनाम् ११ कुत्सनभयात्. १२ संदिष्टाः वाचः - वाचिकानि ( संदेशा ).