SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ स्तुत्वा पुनर्नत्वा, स्थिते वीरांगदेऽग्रतः । आश्वसेनिर्जिनाधीशो, विदधे धर्मदेशनाम् ॥ ७७१ ॥ देहः सैकतगेहवत्, तरुणता शैलापगापूरव - लक्ष्मीः स्त्रैणकटाक्षवत् प्रणयिनीसंगस्तडिद्दंडवत् । ऐश्वर्य खलमैत्र्यवत्, परिजनस्नेहः पताकामवत्, सौख्यं वारितरं गवच्छसितमप्यंभोदवच्चंचलम् ॥ ७७२ ॥ विमृश्य बौद्धमतवत्, क्षणिकं सकलं जगत् । विधेयं पुण्यमेवैकं, तेदक्षयनिधानवत् ॥ ७७३ ॥ निस्सीमसुखनिर्भासी, द्विविधोऽपि महोदयः । पुण्येनैवोल्लसत्युच्चैः, सलिलेनेव पादपः ॥ ७७४ ॥ इहास्तां विभवो भूयान्, कुटुंबं च महत्तमम् । परं भवांतरेऽवश्यं पुण्यमेव सहाचरम् | ॥ ७७५ ।। देवपूजादयादान — शुभध्यानादिनिर्मलम् । सुकृतं यत कृतं पूर्व, तत्फलं युवयोरदः ॥ ७७६ ॥ संप्रत्यपि तथा पुण्य - योगः कोऽपि स कल्प्यताम् । येने व्यामोहितेवैति द्रुतं मुक्तिरमाऽन्तिकम् ॥ ७७७ ॥ निगद्येत्थं स्थिते नाथे, ससुमित्रोऽपि भूपतिः । द्वादशव्रतविस्तीर्ण, प्रपेदे धर्ममार्हतम् ॥ ७७८ ॥ चिंतामणिमिव प्राप्य, धर्म हृष्टो जिनेश्वरम् । नत्वा वीरांगदः प्राप, महाशालपुरं निजम् ॥ ७७९ ॥ विहारान् मेदिनीहारान्, बिंबान् डिबीपहारिणः । पवित्रास्तीर्थयात्राश्च, स्वदेशे मारिवारणम् ॥ ७८० ॥ वर्याः सपर्याश्चैत्येषु साधर्मिकजनार्चनम् । कुर्वतौ तौ नृपामात्यौ, सुकृतं तेनतुस्ततः ॥ ७८१ ॥ युग्मम् ॥ अथ राज्यं चिरं भुक्तवा, स्वतनूजौ निजे पदे । विन्यस्य जिनगेहेषु कृत्वा चाष्टाहिकामहम् ॥ ७८२ ॥ वीरांगदः सुमित्रोऽपि, श्रीमद्देवेंद्रसूरितः । मोक्षलक्ष्म्या इवान्वीक्षां, दीक्षां स्वीचक्रतुर्मुदा ॥ ७८३ ॥ १ धर्मः २ तस्मात् . ३ उभयलोकसंबंधी. ४ क्रियतां युवाभ्यामितिशेषः ५ पुण्ययोगेन धर्मक्रियया ६ भयनाशकान् हिंसानिवारणम् ८ पर्यालोचनाम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy