________________
H
A
कुमारपालच०
॥११॥
HOSCAMSACSCAMPA
वीरांगदो हृदि ॥ ७५८ ॥ वंदारुरतिभावेन, श्रीपार्श्व प्रस्थितोऽस्म्यहम् । तदन्तरायकारीव, दावस्त्वेष दिर्धक्षति ॥७५९॥ तद्भक्ता नास्ति किं काऽपि, शक्का शासनदेवता । वात्या रेणुमिव क्लेशं, श्राद्धानां या हरेत् क्षणात् ॥७६०॥ आविर्भूय । तदा त्यक्त-च्छद्मा पद्मावती नवम् । उपसर्गहरं स्तोत्रं, कृत्वा दत्त्वा च तं जगौ ॥७६१॥ चिंतामण्याख्यमंत्राढ्यं, पार्श्वस्तवमिमं स्मर । स्मृत्याऽस्य मेघवीथ्येव, विध्यास्यति दवो द्रुतम् ।। ७६२ ॥ राज्ञा तथा कृते सद्यः, प्रशशाम दवानलः । श्रीपार्श्वनाथनामापि, विघ्नं हंति 'तमोऽर्कवत् ॥ ७६३ ॥ आस्तिक्यवासितस्वांतः, क्ष्माकांतः प्रस्थितस्ततः । प्रभु नागपुरे ज्ञात्वा, जग्मिवांस्तत्र वेगतः॥ ७६४ ॥ तत्र सर्वविमानश्री–नियंदैरिव निर्मिते । दिव्ये समवसरणे, रूप्यस्वर्ण
मणीमये ॥७६५॥ प्राकाररेखात्रितयं(ये), सुमनःप्रचयांचितम् (ते)। त्रैलोक्यरक्षायंत्राभ(मे), श्रीपार्श्व दृष्टवान्नृपः॥७६६॥ हायुग्मम् ॥ चकोर इव शीतांशु, मयूर इव वारिदम् । दरिद्रित इव द्रव्यम् , स प्रभु प्रेक्ष्य पिप्रिये ॥७६७ ॥ भक्त्या है
प्रदक्षिणीकृत्य, भगवन्तं भुवः प्रभुः। शक्रवत् स्तोतुमारेभे, प्रमोदैरुदरंभरिः॥७६८॥ त्रिभुवनविभो ! तानि व्यर्थान्यहानि |ममागमं-स्तव पदयुगोपास्तिः स्वस्तिप्रदाऽजनि यत्र न । अहमिदमहर्मन्ये धन्यं यदत्र मयाऽचिरात्, सुरतरुरिव श्रेष्ठो
दृष्टस्त्वमिष्टफलप्रदः॥७६९॥(हरिणी)स्मृतिरपि तव स्वामिन् ! क्लुप्ता ममाशु निरासुंषी, पथि पृथुदवज्वालाजालं दिधक्षुतैया |ऽऽपतत् । त्वमसि भगवन् ! भाग्यलेब्धोऽधुना स्तनयित्नुवद्, भवदवभवं तापव्यापं समापय सर्वतः ॥७७०॥(हरिणी) इति51
USHUSHA**
**
१ वंदनशीलः. २ दग्धुमिच्छति. ३ कपटरहिता. विमानश्रीः-विमान प्रभा ४ ईषत्क्षरणैः (मरणां ओबी) ५ दिनम् . ६ निरासकी. ७ दग्धुमिच्छया.
**