SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. GER-RAMC- ॥१८७॥ थाऽप्येष तत्यजे । अत्रार्थे दक्षिणः पाणिः, प्रतिभूरिव गृह्यताम् ॥ ७४६ ॥ महात्मनोऽस्य नामापि, कदाप्यादद्महे यदि।। चंडेन प्राणदंडेन, त्वया दंड्यास्तदा वयम् ॥ ७४७ ॥ तनुस्तंभेन नः प्राणाः, प्रयाणायोद्यता इव । तत् प्रसद्य गतावद्य!, सद्योऽस्मान् मोचयामुतः ॥७४८॥ रेरे हताशाश्चेत् स्तंभ-मात्रेणेहग व्यथाऽस्ति वः तदा प्राणहाणे सा, परेषां कीदृशी भवेत् । ॥ ७४९॥ प्राणत्राणं महत्पुण्यं, महत्पापंच तद्वधः । इति श्रुतोदितं तत्वं, विज्ञापातःपरं हदि ॥७५०॥ अन्येऽपि जंतवो हत, हंतव्या न कदाचन । विशिष्याहतधर्मस्थाः, सर्वलोकहितावहाः॥ ७५१ ॥ शिक्षयित्वेति गणिना, मोचिताः स्तंभतस्ततः । नत्वा प्रभुपदद्वंद्वं, देव्यः स्वस्थानमासदन ॥ ७५२ ॥ चतुर्भिः कलापकम् । तदैवानभटः सोऽभूत, सर्वक्ले शविवर्जितः । तादृशोऽस्ति गुरुर्यस्य, तस्य तत् किं नु कौतुकम् ? ॥७५३॥हेमाचार्थोऽपि स प्रात-स्तस्मादुदयनात्मजात् । | विधाप्य सर्वदेवीमां, भोगं साहसिकं शुभम् ॥ ७५४ ॥ नत्वा च मूलचैत्यस्थं, जिनेशं मुनिसुव्रतम् । पद्भ्यां विहरमाणस्वत, पुनः पत्तनमागमत् ॥७५५॥ अकस्माद् विहृतं कुत्रे-त्यनुयोगपरं नृपम् । उक्त्वाऽऽसमटवृत्तांतं, भृशं व्यस्मययत् प्रभुः ॥७५६॥ दानादिकृत्यसुरभीकृतचित्तवृत्ति-निर्मापयन् स्वयमनेकविधान् विहारान् । तत्कारिणां प्रणयंश्च सहायभावं, | चौलुक्यभूभृदिति संचिनुते स्म पुण्यम् ॥७५७॥ (वसंततिलकाबत्तम) इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहेतश्रीकुमारपालभूपालचरित्रे कृपासुंदरीपरिणयदानाद्युपदेशचैत्य निर्माणादिवर्णनो नामाऽष्टमः सर्गः॥अष्टानां मिलने५२३० १ तनुस्तंभात्. २ नाशे. ३ अनुकंपायाम्. ४ सहस्रव्ययसाध्यम्. ५ प्रश्नतत्परम्. ६ व्यस्मेरयत्, प्र. ७ वासित०. ८ कुर्वन् , कारयन् , वा. महाकाव्ये मोहराजपराजयश्रीधर्मराजसाम्राज्यकरणवर्णनो नामाऽष्टमसर्गः, प्र. RECER ।।१८७०
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy