________________
सस्मार स्वनामवत् ॥ ५४२ ॥ एवमावर्जयन् पुण्यं, न्यायेनोल्लासयन् यशः । आस्वादयन् सुखं भूप- श्चिरं राज्यमपालयत् ॥ ५४३ ॥ गतोऽथ वाहकेल्यर्थं, पार्थिवः प्राप्य सद्गुरुम् । तद्देशनारसं तृष्णाss - तुरवत् पीतवानिति ॥ ५४४ ॥ मानुपत्वाद्यमासाद्य, स्वहिते यः प्रमाद्यति । विलंबते स दुर्बुद्धिः, सुधापानार्थमर्थितः ॥ ५४५ ॥ गृहाऽऽशंसां मुक्त्वा चरणभरमादृत्य सुचिरं तपस्यंतः संतः क्वचिदपि वने दूरितजने । समाधिस्वःकुल्या जलविगलिता शेष कलुषा - स्तदीप्तुं कैवल्यं कतिचन यतते सुकृतिनः ॥ ५४६ ॥ ( शिखरिणीवृत्तम् ) प्रबुद्धात्मा नृपो दत्त्वा, राज्यं स्वतनुजन्मने । गुरोस्तस्यैव पादांते, दांतात्मा व्रतमाददे ॥ ५४७ ॥ तपस्तपर्त्तुनाऽऽशोष्य, कालुष्यसलिलं घनम् । पुण्यसारो विपद्यांते, दिवर्मांसेदिवान् मुदा ॥ ५४८ ॥ ततश्युत्वा विदेहेषु भुक्त्वा चैश्वर्यमद्भुतम् । व्रतेन केवलं लब्ध्वा स गमी मोक्षमक्षयम् ॥ ५४९ ॥ त्वं पुण्यसारकथया फलमाकलय्य, कारुण्यकल्पतरुकल्पितमित्यनस्पम् । निःशेषदर्शनमतं सुकृतैकसारं, तत् पालयस्व नरपाल ! कुमारपाल ! ॥ ५५० ॥ ( वसंततिलकावृत्तम् )
इति श्रीकृष्णर्षीयश्री जयसिंहसूरिविरचिते परमार्हतश्री कुमारपाल भूपालचरित्रे महाकाव्ये कारुण्योपदेशो नाम षष्ठः सर्गः ॥ षण्णां सर्गाणां मीलने ग्रन्थाग्रम् ३७४३ ॥
१ दूरं जाता जनाः यस्य (यस्मात् ) तत् तस्मिन् २ गंगा. ३ प्रसिद्धम् ४ समीपे ५ शोषयित्वा ६ प्राप्तवान् ७ सम्मतम् ८ कारुण्यम्.
Xxxxx XXX
-