________________
कुमारपालच०
त्वयि पश्यति ॥ ३४०॥ तद्दुःखेन त्वमत्रागा, राजन् ! मद्भाग्ययोगतः॥ इयच्चिरं त्वया साधं, भुक्तं लोकोत्तरं सुखम् ॥३४१॥ यियाससि निजं स्थानं, यदि त्वं तर्हि किं ब्रुवे ॥ यियासुश्च मुमूर्षुश्च, निषिद्धौ हि न तिष्ठतः॥ ३४२॥ परं मम मनः स्वामि-स्त्वया सार्धं समेष्यति ॥ प्रस्थिते हि मनोनाथे । मनस्तिष्ठेन्न भृत्यवत् ॥३४॥ किंचजन्मोत्तमं नृणां। शश्वत् स्वैरविहारिणाम् ॥ स्त्रीणां तु गर्हितं याव-जीवं परवशात्मनाम् ॥ ३४४ ॥ जन्माभावो वरं भूया-मोक्ष| सौख्यैककारणम् ॥ न तु जन्मांबुजाक्षीणां । सर्वदुःखाप्तिलग्नकम् ॥३४५॥ योगे सति सुखं स्वल्पं । वियोगे दुःखमुल्बणम्॥ विदन्नपीति हा मूढो । जनः संसजति प्रिये ॥३४६॥ दवीयस्यपि मंतव्या । देवाहं स्ववशंवदा ॥ च्युतोचितं च यत्किंचित्तन्मे शंतव्यमव्यथम् ॥ ३४७ ॥ इत्युक्त्वा भूषयित्वा च । दिव्यनेपथ्यभूषणैः ॥ नृपादींस्त्रीन् सरस्तीरेऽ-मुंचत् सर्वांगसुंदरी ॥ ३४८॥ आत्ततव्याघ्रताकारि-सलिलं तमजासुतम् ॥ लात्वा मकरमर्त्य च । प्रतस्थे नृपतिस्ततः ॥ ३४९॥ महामात्यैः सुमत्यायैः । कृतप्रावेशिकक्रियः॥ दुर्जयःक्ष्मापतिः प्राप । समित्रोऽपि निजास्पदम् ॥ ३५०॥ तत्र स्थित्वा कियकालं, हठादापृच्छय दुर्जयम् । तद्दत्तं रनहेमादि, तृणवत् परिमुच्य च ॥ ३५१॥ प्रस्थितस्तनुजोऽजाया, लात्वा मकरपूरुषम् ॥ यक्षसम तदेवागा-तेनैव विवराध्वना ॥ ३५२ ॥ युग्मम् ॥ उत्थाप्य तं कपिनरं । नरद्वययुतस्ततः॥ अजापुत्रः प्रतस्थेऽये। नगरी प्राग यियासिताम् ॥३५॥ सोऽपश्यत्पुरतो मेघ-घट्टनेन दिवश्युताम् ॥ मंडलीमिव पूर्णेदोः। स्फाटिकी केलिदीर्घिकाम् ॥ ३५४ ॥ ददर्श परितस्तां च ।कांतिजालजटालितान् ॥ विमानानतनुश्रीकां-स्तारकानिव १स्त्रीणाम, २ गतोचितं-औचित्यरहितम्. ३ व्यथारहितं यथास्यात्तथा.
SSSSSSSSS