SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ACCURACCAR पुत्रौ ध्यात्वा स्वदैवतम् । प्रतस्थाते पुरो मार्गे, धत्ते तंद्रालुतां हि कः? ॥ ३५४ ॥ मणीव्यतिकरं नैश, वक्तुं योग्यमपि द्रुतम् । सुमित्रो नोचिवान् मित्रं, समये वैदितेतिधीः ॥ ३५५ ॥ दुरध्वेऽपि ब्रजंतौ तौ, प्राग्विपक्रिमपुण्यतः । माद्यद्भिरपि सिंहाचै-बबाधाते न सिद्धवत् ॥ ३५६ ॥ स ललाटंतपे शूरे, कुमारो मित्रमब्रवीत् । विलसत्यशनाया मे, किं भोज्यं भुज्यतां भण? ॥ ३५७ ॥ मणिप्रसादनाहेतो-रुपवासत्रयं स्वयम् । कुमारः सुकुमारत्वान्न करिष्यति कर्हिचित् ॥ ३५८ ॥ तस्मात् केनाप्युपायेन, तदहं कारयेऽमुना । विमृश्येति सुमित्रस्त-मूचे मतिमतां वरः॥३५९॥ युग्मम् ॥ स्वामिन्नानायि पाथेयं, शून्येऽत्रास्ति न किंचन । पचेलिमाऽपि ह्यज्ञाता, फलश्रेणिरिहत्यका ॥ ३६० ॥ अविज्ञातफला-13 स्वादा-दनर्थः कोऽपि माऽस्तु नौ । उपास्येति बुद्ध्या तं, सुहृत्स्वेनाप्युपाक्सत् ॥ ३६१॥ युग्मम् ॥ एवमन्यद् व्यह पुण्य-पोषितौ तावुपोषितौ । तुरीयेऽहनि कांतार-प्रांतं कांतमवापतुः ॥३६२॥ श्रीविशालं महाशाल-पुरोद्यानं प्रपद्य च । हंसवत् सरसि स्नात्वा, चिरं निर्ववतुस्तराम् ॥ ३६३ ॥ वीरांगदो जगादाथ, कृतोन्माथः क्षुधा सखे !। प्राणा मम प्रयांतीव, कुतोऽप्यानय भोजनम् ॥ ३६४ ॥ सुमित्रः प्राह निस्तीर्णो, विस्तीर्णो विपदर्णवः। प्रतीक्षस्व क्षणं येन, भोजये दिव्यभोजनम् ॥ ३६५ ॥ राजसूनुः पुनः प्रोचे, त्र्यहं प्रागुपवासितः। प्रतीक्षयसि चाद्यापि, तदाताऽसि न मेऽशनम् ॥ ३६६ ॥ दत्त्वा नीलमणिं तस्मै, प्रसूनान्युपढौक्य च । ऊचे सचिवपुत्रोऽयं, विधिज्ञ विधिनाऽयंतीम् ॥ ३६७॥ १ स्वेष्टदेवम् . २आलस्यम्. ३वदिष्यामि.*दुष्टोऽध्वा. प्रा०स०अच्. दुरध्वस्तस्मिन्. ४विपाकेन निर्वृत्तम्. ५अशनाया-क्षुधा. ६उपवासत्रयम् . ७ आवाभ्यां न आनायि. ८ निर्जनस्थले. ९ आवयोः. १० उपवास कारयित्वा. ११ दिनद्वयम् . १२ कृतोत्पीडः, १३ आवाभ्याम् उत्तीर्णः. १४ दिनत्रयं यावत् . १५ मणिः, १६ त्वया पूज्यताम् . कु.पा.च.१७
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy