SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ कुमारपालच किंचिद्याचस्वे-त्युक्तः स धुसदा पुनः। नायाचीत्सर्वथा स्वेष्ट-महो सत्पुरुषव्रतम् ॥ ३४१ ॥ स्वयं यक्षस्ततो दत्त्वा, नीलशोणं मणिद्वयम् । तमभाषिष्ट विस्पष्टं, श्रूयतामनयोर्महः॥ ३४२ ॥ अयं नीलमणिर्देय-स्त्वयाऽस्मै राजसूनवे । उपवासत्रयाराद्धो, वैभवं वितनिष्यति ॥३४॥ मायां सर्पणवां जप्त्वा, पूज्यः शोणमणिस्त्वया । अमितां कामितां चिंतामणिवद् दास्यति श्रियम् ॥ ३४४ ॥ उदित्वेति गते देवे, सुमित्रस्तम्मणिद्वयम् । रविबिंबवदुद्दाम-धाम दृष्ट्वा परामृशत् ॥ ॥३४५ ॥ अहो पुण्यस्य महिमा, नहि माति जगत्रये । चिंतामण्यादयोऽमी य-रसेवकस्यापि सेवकाः ॥ ३४६ ॥ लक्ष्मीमानयति, प्रियं प्रथयति, प्रत्यूहमुन्मूलति, द्वंद्वे द्विष्टबलं पिनष्टि, हरति व्याघ्रादिभूतं भयम् । कांतारे सह बंभ्रमीति, दिविषद्वर्ग विधत्ते वशं, पुण्यं पुण्यवतां न किं ? वितनुते प्राचीनमूर्जस्वलम् ॥३४७॥(शार्दूल०) सुमित्रे चिंतयत्येवं, जजा. गर्वान् नृपांगजः । क्षणं त्वमपि शेष्वेति, भणित्वा तमसूषुपत् ॥ ३४८ ॥ दोषोच्छेदकरं तिग्म-रुचिं मांत्रिकवत्ततः । मत्वेवागामिनं नंष्ट्वा, पिशाचीव निशा ययौ ॥ ३४९ ॥ निषेव्य वारुणी रागात् , कलंक प्रकटं वहन् । विधुर्द्विजाधि-| राजोऽपि, युक्तमेव निपेतिवान् ॥ ३५०॥ नभोवनांतरे यानि, निशायां व्यकसन्नलम् । तानि तारप्रसूनानि, प्राताली |किलाग्रहीत् ॥ ३५१॥ वर्तते मम सजाति-महसाऽयं महीपभूः। पश्याम्येनमितीवागा-दुदयादि दिवाकरः ॥ ३५२॥ उडीयमाना वृक्षेभ्यः, पक्षिणः स्वस्वरेस्तदा । पठदुवैतालिकीभूय. कुमारं प्रति भेजिरे ॥ ३५३ ॥ प्रभाते च नृपामात्य १ महिमा. २ औपवस्त्रत्रयाराद्धः-प्र. ३ राज्यम् . ४ वितरिष्यति. प्र. ५ हींकारम् , ६ ओंकारयुताम् ७ बलवत् . ८ पश्चिमदिशाम्, पक्षे मदिराम् . ९ रंगात्. पक्षे मोहात् . १० चंद्रः, ११ प्रातःकालरूपो माली-मालाकारकः, १२ संज्ञातिः-प्र, १३ सिषेविरे. यः, पक्षिणः स्वस्वरैस्तदा महसाऽयं महीपभूः । पश्याम्यकसन्नलम् । तानि तारप्रसूनानि, प्राजाधि ॥ ९६॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy