SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० RECORRENA एतदर्थ मया मार्ग, त्वमुपावास्यथाख्यहम् । यतस्तपो विना सिद्धि-र्न स्यात् पुण्यस्पृशामपि ॥३६८॥ तापयत्यपि तनूं गुरुतापैः, शोषयत्यपि रसांस्तपसीह । तापने कमलिनीव समस्ता, सिद्धिरेति रैतिमद्भुतमेतत् ॥३६९॥(स्वागता) असहित्वा च कः क्लेशं, जनः श्रीभाजनं भवेत् । कर्णी स्वर्णेन संपूर्णी, पश्य? वेधादिकष्टतः॥३७०॥अयं मणिः प्रसन्नश्च,राज्यं विश्राणयिष्यति। अचिंत्यो मणिमंत्रादे-र्यत् प्रभावो विज़ुभते ॥३७१॥ सोऽपृच्छत् स्वच्छधीर्मित्रं, विस्मेरो मणिवीक्षणात् । व्यश्रोणि तुभ्यं केनायं, राज्यदश्च कथं वद ॥ ३७२ ॥ वक्ष्याम्यवसरे सर्व, संप्रत्यभ्यय॑तामयम् । इत्युक्तः स वयस्येन, प्रारेमे मणिमर्चितुम् ॥ ३७३ ॥ तावद् रहः सुमित्रोऽपि, पुष्पैरभ्यर्च्य रूंच्यधीः। आरराध मणिं शोणं, यक्षाख्यातमनुजपन् ॥३७॥ रत्नाधिष्ठायकः प्रादुर्भूय तं प्रोचिवानिति । संतुष्टोऽस्मि स्मृतोऽभ्येत्य, सर्व कुर्वे त्वदीप्सितम् ॥ ३७५ ॥ तेन देवप्रसादेन, निदाघेनेव तत्क्षणम् । सुमित्रो मित्रवद् दीप्रो,नृपसूनुमुपागमत् ॥३७६॥ तावद् वीरांगदोऽप्युञ्चै-ाननिश्चलमानसः । अर्चयित्वा मणिं सम्यग, विररामाभिरामरुग् ॥ ३७७॥ अथाधिष्ठायकं शोण-मणेः स्मृत्वा सुरोत्तमम् ।। सुमित्रोऽर्थितवान् स्नान-प्सानप्रमुखमद्भुतम् ॥ ३७८ ॥प्रेरितास्तेन देवेन, दिव्यालंकारभासुराः । सहसा नभसाऽभ्येत्य, प्रणेमुस्ती सुरस्त्रियः ॥३७९॥ अंतर्वणं स्फुरच्छात-कुंभस्तंभ तयोः कृते । रत्नकुट्टिमरोचिष्णु, मंदिरं ता विचक्रिरे॥ १ सम्यक् पकस्य भुक्तस्य सारो निगदितो रसः, इत्युक्तः देहस्थभुक्तानादेः परिणामः धातुमेदः रसस्तं तथा वीर्यं विषं जलं रुधिरं शृंगाररस रागं च. २ सूर्ये:न्यत्र तपसि ३ आनंद-विकाशम्, ४ दास्यति. ५ अदायि. ६ सुन्दरबुद्धिः, ७ सूर्यवत्. ८ मनोहरकान्तिः. ९ प्सान-भोजनम्, १० वनमध्ये. ११ दीप्यमानसुवर्णस्तं- | भम् . १२ रत्नमयाऽधस्तनभूभागदीप्यमानम् . १३ विकुर्वन्ति स्म..
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy