SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तत्ववन्मने । हितं को हि न मन्यते ॥ १०९॥ विहृतेऽपि गुरौ तस्मि-निधानमिव निर्धनः॥ धर्म गुरूदितं नैव । स| मुमोच कदाचन ॥ ११०॥ अन्यदा प्रावृडारमे । केकारवमनोहरे ॥ निर्जगाम यशोभद्रः । क्षेत्रक्षोणिदिदृक्षया ॥१११॥ तदा क्षेत्रेषु मूलानि । भृत्येषु ज्वालयत्स्वयं ॥ दृष्टवान् गर्भिणीमेकां । निर्दग्धां पन्नगप्रियां ॥ ११२॥ दध्यौ च विगिदं क्षेत्र-कर्मनिर्माणमंगिनां ॥ नियंते जंतवो हंत । यत्र पंचेंद्रिया अपि ॥११३॥ न मोक्षः क्वापि जीवाना-मेकजीववधादपि ॥ भूरिजीववधे जाते । का गतिर्भविता हहा ॥११४॥ जनैरारंभसंरंभः । कुटुंबार्थ विधीयते ॥ क्लिश्यते नरकोत्संगे।स त्वेकस्तद्भवांहसा ॥११५॥ कथमेताः प्रपूर्येरन् । नरकक्षोणयोऽखिलाः ॥ अस्मादृशा भवेयुश्चे-त्पापीयांसो न भूरिशः॥११६॥ | सप्तैव नरकावन्यः । श्रूयंतेऽर्हन्मते ततः॥ ईदृक्पापकृतः कुत्र । समुत्पत्स्यामहे वयं ॥ ११७ ॥ ते धन्यास्ते विवे-18 कज्ञाः । समस्तारंभवर्जनात् ॥ श्रित्वा भागवतीं दीक्षां । निष्पाप्मानश्चरंति ये ॥ ११८ ॥ ध्यात्वेति श्रावकामात्यं । सहादाय स हारभृत् ॥ यशोभद्रो ययौ तं स्वं । गुरुं डिड्वाणकस्थितं ॥११९॥ नत्वा श्रीदत्तसूरिं तं । स्वं तत्पापं निवेद्य च ॥ तत्यायश्चित्तमप्राक्षी-दश्रुमिश्रविलोचनः॥१२० ॥ व्याजहाराथ नियाजं । सूरिव निशम्यतां ॥ जंतुघातोद्भवमघं । सर्वाघादतिरिच्यते ॥ १२१॥ तत्रापि यो वधः पंचें-द्रियाणां स वधो महान् ॥ यस्माजंतुरधो याति । शैलश्रृंगच्युताकश्मवत् ॥ १२२ ॥ अमुष्मात्यापतो मोक्ष-स्तच्चारित्रं विना न ते ॥ किमपास्य सुधापानं । जीव्यते विषभक्षणात् ॥१२३॥5 ६ तन्निशम्य स निर्विण्णो । हारेण जिनमंदिरं ॥ विधाप्य व्रतमादत्त । श्रीदत्तगुरुसन्निधौ ॥ १२४ ॥ गुरोः पुरोव्रताहेऽसौ। १-प्र. २ डिंडाणक. प्र. BAISA CASA GASEOSASSASSASSA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy