SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥४ ॥ | निष्पुण्योऽप्यनुते श्रियं ॥ किं स्पर्शोपलवेधेन । नायः श्रयति हेमतां ॥९४॥ पुरा कल्पदुमीभूय । सेवकानां सुरोत्तमे ! ॥ अधुना बद्धमुष्टित्वं । दधाना किं न लज्जसे ॥९५॥ अचेतना अपीष्टं चे-ददते स्वर्दुमादयः॥ सचेतने ? कथं तर्हि । त्वं न मे ददसे वद ॥९६॥ तत्तुष्ट्वा देवि ? मे देहि । चिंतारत्नं तदुत्तमं ॥ श्रीदामि यत्प्रसादेन। नो चेत्पश्य कृतं मम ॥१७॥ इत्युदीर्य स्फुरद्वीर्यः । क्षुर्या निशितधारया ॥ कुष्मांडवन्निजं शीर्ष । द्विजश्छेत्तुं प्रचक्रमे ॥९८॥ तुष्टोच्चैस्तेन सत्वेन । |सा देवी मूर्तपुण्यवत् ॥ दत्वा देवमणिं तस्मै । जलरेखेव जग्मुषी ॥१९॥ विष्णुशर्मापि सिद्धार्थ-स्ततः स्वसदनोत्सुकः॥ यानमारुह्य वेगेन । प्रतस्थे वार्धिवर्त्मना ॥१०० ॥ जलधौ बजतस्तस्य । निशि राकानिशाकरः॥ नाविकानां तमोलुप्तं । वर्त्म व्यक्तुमिवोद्ययौ ॥१०१॥प्रेक्ष्यापत्यं विधुं वार्धिः । परिरब्धुमना इव ॥ ऊर्ध्व प्रासारयल्लोलान् । कल्लोलान् |स्वकरानिव ॥१०२॥ चंद्रं सांद्रद्युतिं दृष्ट्वा । दीपोऽयं किमु मन्मणिः॥ इति ध्यात्वा करेऽकार्षीद् । द्विजातिस्तं विलोकितुं| ॥१०३ ॥ पश्यतोऽनेकशस्तस्य । चंद्रबिंब मणिं च तं ॥ यानबाह्यात्कराच्युत्वा । पयोधौ पेतिवान् मणिः ॥ १०४॥ च्युते चिंतामणौ तस्मिन् । जीवितव्य इवात्मनः ॥ उचितं चेतनाशून्यो । द्विजः समजनि क्षणं ॥ १०५ ॥ कथंचिच्चेतनां प्राप्य । मुहुनिंदन स्वमुग्धतां । मुष्टवत् पर्यदेविष्ट कष्टतः सुचिरं द्विजः॥१०६॥ यथा मुग्धो द्विजः सोऽब्धौ । गमयामासिवान्मणिं ॥ तथा नृजन्म निर्धर्मो। गमयत्येव मानवः ॥१०७ ॥ ततस्त्वयाधिगम्यत-मानवं जन्म मानवं ॥ यशोभद्र स्वभद्राय । श्रेयः संचेयमुच्चकैः॥१०८॥ गुरोरित्युपदेशेन । सौरभेणेव वासितः॥ स धर्म १ लक्ष्म्या -अपूर्वम् ॥४ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy