________________
सर्ग.३
कुमारपालच०
कलापिनां तांडवयन् कलापां-स्तन्वन्मुहुर्वारिकणोक्षणानि । तस्यानयन् सौरभमातिथेयीं,तद्वायुराचारविदाचचार॥३३३॥ तस्यामेव निशि स्वप्ने-ऽभ्येत्य सोमेश्वरोऽभ्यधात् । नाम्ना प्रतापसिंहाय, कोलंवधरणीभृते ॥ ३३४ ॥ एता कुमारपालोऽत्र त्वत्पुरोपवनं प्रगे । आस्थानमिव सत्त्वस्य, स भावी गुजरेश्वरः॥ ३३५॥ तस्य त्वं सन्मुखं गत्वा, कृत्वा प्रावेशिकं महम् । विनयाद्वामनीभूय, भूयसी भक्तिमाचरेः॥ ३३६ ॥ प्रतापसिंहः स. प्रात-श्चक्रीवादैन्यसैन्यभृत् । गतः संमुखमैक्षिष्ट, तं चौलुक्यं सरस्तटे ॥ ३३७ ॥ बहुमानात्समानीय, स्वं सद्माच्छाधीनृपः । तमग्रजमिव स्फारैः, सत्कारैः पर्यतूतुषत् ॥ ३३८ ॥ तत्र सौष्ठवतस्तिष्ठन् , कुमारः पृष्टवान्नृपम् । अदृष्टचरमप्येवं, त्वं मां सत्कृतवान् कथम् ? ॥३३९॥3 तस्मिन् सोमेश्वरादेशे, प्रोक्ते कोलंबभूभुजा । देवमानेन मेने स्वं, कुमारः पुण्यवत्तरम् ॥ ३४० ॥ प्रतापसिंहमानेन, स्थितः कत्यपि वासरान् । सूत्रयामास तन्मैत्री, सतां कर्मेदमादिमम् ॥ ३४१॥ तमनुज्ञाप्य चौलुक्यो, वक्रितग्रहवत्ततः। व्यावृत्त्य शिप्रादीप्राऽन्तां, प्रापदुजयिनी पुरीम् ॥ ३४२ ॥ वियोगानलसंतप्तं, कामं मानसमात्मनः । कुटुंबसंगमांभोभिः,15 सेसिच्यामास तत्र सः॥ ३४३ ॥ स्वर्देश्यां तां पुरीं पश्यन् , कुमारः स्फारसंमदः। कुंडगेश्वरनामानं, प्रासादं दिव्यमासदत् ॥ ३४४ ॥ मध्यनिष्क्रांतवामेय-मूर्तिसर्पफणोच्छ्रितम् । नमस्यामास माहेशं, तत्र लिंगं स रंगतः॥ ३४५॥ लिंगांतरस्थितां पार्श्व-प्रभोमूर्ति निभाल्य सः। जिनध्यानपरं शंभु-मप्यमन्यत मानसे ॥ ३४६ ॥ स विश्वानंदिनी लक्ष्मी, प्रासादीयां विलोकयन् । तत्र प्रशस्तिमद्राक्षी-दिव्यकाव्यावलीमयीम् ॥ ३४७ ॥ वाचयित्वा कुमारस्तां, तत्र श्रीविक
१ मयूराणां २ सेचनानि, ३ कुमारपालस्य ४ सरः वायुः, ५ एण्यति. (अदृष्टे चरतीति अदृष्टचरस्तम्, ७ सोमेशसत्कारेण,
॥५६॥