________________
लोभः प्राणप्रणाशकः ॥ ३१७ ॥ ततो यदि शिरो ब्रूते, ब्रुडतीति वचस्तदा । यूयं ब्रूध्वं पुरस्तस्य लोभादित्युत्तरं द्विजाः 1 ॥ ३१८ ॥ एतन्निशम्य भूयोऽपि न निर्यास्यति तच्छिरः । अथ निर्यात्यहं ज्ञाप्यो, यथाऽऽगत्य निवारये ॥ ३१९ ॥ अथ | ते विस्मिता विप्रा - स्त्यक्तश्वानास्तमूचिरे । सर्वज्ञस्येव ते प्रज्ञा, धत्ते सर्वपथीनताम् ॥ ३२० ॥ अपारे संशयावारेपारेऽस्माकं निमज्जताम् । भवत्प्रज्ञैव संजज्ञे, तरीवोत्तारकारणम् ॥ ३२१ ॥ अभिष्टुत्येति तं तेन, विसृष्टा ब्राह्मणास्ततः । अंतिमेऽहि चतुर्मास्याः, स्वं कांचीपुरमांचिषुः ॥ ३२२ ॥ नृपेण प्रातराहूता, विप्रास्ते प्रणिगद्य तम् । मारवद्विजवृत्तांतं, तद्युक्ता भेजिरे सरः ॥ ३२३ ॥ निर्गते मस्तके विप्रैः प्रोक्ते तत्रोत्तरे सति । स हसित्वाऽवदत्साधु, परिज्ञातो ममाशयः ॥ ३२४ ॥ ततः शीर्ष नृपोऽपृच्छत्, कस्त्वं ? वक्षीति वा कुतः १ । तदूचे व्यंतरः शीर्ष-स्थायी केलीकिलोऽस्म्यहम् ॥ ३२५ ॥ भवन्मेधाविनां दाक्ष्यं दिदृक्षुरिदमूचिवान् । अद्य चास्योत्तरं प्राप्य ।, नागमिष्याम्यतः परम् ॥ ३२६ ॥ तस्मिन्नंतर्हिते विप्रान्, सत्कृत्यैतत्पुरीश्वरः । शिरोवार्ताप्रसिद्ध्यर्थ - मिदं चैत्यमचीकरत् ॥ ३२७ ॥ अतिष्ठिपञ्च चैत्येSस्मिन्नाश्मं निर्माप्य मस्तकम् । तदेतदर्च्यते लोकै-र्नृपाज्ञा हि बलीयसी ॥ ३२८ ॥ तच्छिरश्चरितं श्रुत्वा कुमारो विस्मितांतरः । प्राप्तः कांचीपुरीमध्यं, केसरीव वनांतरम् ॥ ३२९ ॥ तत्र प्रमोदमापन्नो, नानाकौतुकलोकनात् । महीश इव सौस्थ्येन, कियत्कालमवास्थितः ॥ ३३० ॥ ततोऽपि प्रस्थितो मल्लि - नाथदेशैकभूषणम् । निर्विलंबः स कोलंबपत्तनं प्राप पापमुक् ॥ ३३१ ॥ कृतकांतारसंचारः, स श्रांतः सरसी तटे । उल्लसत्पादपच्छाये, विशश्राम द्विपेंद्रवत् ॥ ३३२ ॥
१ समुद्रे २ प्राप्तवंतः ३ राजयुक्ताः ४ मस्तकः ५ युष्मत्पंडितानाम्.