SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सर्ग.९ कुमार इतश्चंपापुरीत्यस्ति, तत्र स्त्रीकेलिलोलहृत् । आसीत् कुमारनंदीति, स्वर्णकृद् विभवोद्भटः ॥ १२॥ असौ पंचशती पालच. दहेनो, दायं दायं सुलोचनाः। पणौकृत्य च तत्पंच-शतानि सममेलयत् ॥ १३ ॥ ताभिरुहामकामाभिर्वामाभिः सह सोऽन्वहम् । विललासानुरक्ताभिः, करिणीभिर्द्विपेंद्रवत् ॥ १४ ॥ अन्यदा पंचशैलाख्य-द्वीपतः शक्रशासनात् । श्रीनं॥१८८॥ दीश्वरयात्रार्थ, चेलतुयंतरस्त्रियौ ॥१५॥ विद्युन्माली तदा पंच-शैलेशस्तत्पतिच्युतः । अद्य नौ कः ? पतिर्भावी-त्येवं ते अपि दध्यतुः॥ १६ ॥ ततो व्योम्ना व्रतीभ्यां, ताभ्यां चंपापुरीस्थितः। पंचपत्नीशतैः क्रीडन् , हेमकृत् स व्यलोक्यत ॥ १७ ॥ चिंतितं च वृथा लोके, कामोऽनंग इति श्रुतः । यतोऽयमेव प्रत्यक्षः, से वपुष्मान् विराजते ॥१८॥ स्वरूपदर्शनेनायं, ध्युग्राह्यः प्रियवांछया । ध्यात्वेत्थमवतीर्णे ते, तूर्ण व्योम्नस्तदंतिके ॥१९॥ अनयोः कोऽपि लावण्य-| रसः स्फुरति वर्मणि । लिह्यते नयनाभ्यां यः, क्षीयते न च सर्वथा ॥२०॥ ध्यात्वेति स्वर्णकारेण, ते पृष्टे के युवामिही। आवां हासाप्रहासाख्ये, देव्यावित्थमवोचताम् ॥ २१॥ युग्मम् ॥ भोगार्थ प्रार्थिते तेन, ते पुनस्तं जजल्पतुः । पंचशैलाभिधं द्वीप-मागच्छेरस्मदिच्छया ॥ २२ ॥ उक्त्वेति गतयोर्देव्योः, स्मरस्मेरोऽथ हेमकृत् । तत्प्राप्त्युपायमध्यासीद्, धनं निर्धनवच्चिरम् ॥ २३ ॥ स्वर्णोधमुपदीकृत्य, स्वाभिप्रायं प्रकाश्य च । चंपानाथाय तेनेत्थं, पटहः समघोष्यत ॥२४॥ नयेद् यः पंचशैलं मां, स्वर्णकोटि लभेत सः । श्रुत्वा तच्च जरन् कोऽपि, पटहं लोलुपोऽस्पृशत् ॥ २५ ॥ तावत् स्वर्ण १ भवः, प्र. २ कामः. ३ अङ्गवान्, ४ स्वीकरणीयः, ५ पतीच्छया. ६ मुक्ताफलेषु छायाया ( कान्त्या )- स्तरलत्वमिवान्तरा । प्रतिभाति यदंगेषु, तल्लावण्य| मिहोच्यते ॥ लावण्यमेव रसः, ७ संभोगार्थमित्यर्थः,-दर्शनस्पर्शनादीनि, निषेवेते विलासि नौ । यत्रानुरक्तावन्योन्यं, संभोगः स उदाहृतः ॥ SRROREOGRAMMERCORDS k-OCOCCCCCORE ॥१८८॥ *
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy