SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ वांडजाः॥४४०॥ न केवलं नराणां श्रीः । सुराणामप्यहो प्रिया ॥ यस्माद्भमंति हेमाद्रि-मभितो भास्करादयः॥४४॥ ते संति हंत भूयांसो । जीवतो जीवयंति ये ॥ मृतान या जीवयत्याशु । सैका श्रीस्त्रिजगत्यपि ॥ ४४२॥ दत्वा देशादिकं कंचि-त्तदेतं परितोषय ॥ प्राणेभ्योऽप्यधिकं राज्यं । मुधा त्वं मास्मजीगमः ॥ ४४३ ॥ अथाभयंकरः माह || मंत्रिस्त्वं सत्यमभ्यधाः॥ परमस्याभवद्राज्य-भ्रंशो मद्धलकर्तकः॥४४४॥ अमुष्मै भृशमााय । स्वराज्यं न ददे यदि ॥ तदा मंदाक्षमंदोऽहं । दर्शयेऽमुं कथं मुखं ॥४४५ ॥वैभवं पात्रविन्यस्तं । स्फारीभूय निवर्तते ॥ किं द्रव्यं सदणिग्दत्तं ।। वर्धित्वा समुपैति न ॥४४६॥ सद्भ्यो धनं यत्तदपि प्रदत्तं । लोकोत्तरं द्राक्फलमादधाति ॥ गोभ्यो वितीर्णस्तृणपूलको हि । मुग्धं न कि यच्छति दुग्धपूरं ॥ ४४७ ॥ किंच मंत्रादिमाहात्म्या-त्स्याच्चाप्यचला क्वचित् ॥ ततोऽप्यधिकचा-| पल्या । राज्यलक्ष्मीरियं पुनः ॥ ४४८॥ या रज्यते गुणैर्नैव । न नद्धाप्यवतिष्ठते ॥ कीहक्स्यान्ममता तस्यां । श्रियां पण्यस्त्रियामिव ॥४४९॥ प्राणानपि प्रयच्छति । केचनोपचिकीर्षयान श्रीमात्रमहं दद्यां । यदि तन्मम का गतिः॥४५०॥ | राज्यश्रीभूभुजां मूलं । तन्मूलं सुकृतं पुनः॥ उपकृत्यातस्तन्मे । वद कीदृगनौचिती ॥ ४५१॥धीसखं बोधयित्वेत्थं । स भूभृद्घनवाहनं ॥ न्यवीविशन्निजे राज्ये । कटरे दातृता सतां ॥ ४५२॥ येषां परार्थमाधातुं । राज्यं बहु तृणायते ॥ प्राणाश्च कर्करायंते । धीराः स्तुत्या न कस्य ते? ॥४५३॥ पवित्रेण चरित्रेण । तेन क्षेमंकरात्मजः॥ महतामपि नो केषां। चित्रीयामास मानसे? ॥ ४५४ ॥ चतुरंगबलप्राज्यं । तद्राज्यं समवाप्य सः॥ नाम्नार्थेनापि सत्योऽभूद् । भूपतिर्घनवा १ रोगिणः इत्यर्थः. २ मृतप्रायान्. ३ किं-प्र. ४ मंदाक्षेन-लज्जया मंदः-संकुचितः. ५ सुन्दरं. ६ विद्युत्. ७ विद्युतः. ८ बद्धा-प्र. ९ मतिः,प्र,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy