________________
कुमार
पालच०
॥ १५ ॥
पुनर्लभे कथं स्थानं । करप्रभ्रष्टरलवत् ॥ ४२५ ॥ हुं ज्ञातं यद्वलादेष । नृसिंहो मामहारयत् ॥ अभयंकरभूपालं । तमेवाहमपि श्रये ॥ ४२६ ॥ इति ध्यात्वा च गत्वा च । नगरीं पुंडरी किणीं ॥ क्षेमंकरात्मजं क्ष्मापं । नत्वोचे घनवाहनः ॥४२७॥ रूढिमात्रमिदं धात्रीं । शेषाद्या धारयंति यत् ॥ तदुद्धारधुरीणस्तु । स्यादेको ह्युपकारकः ॥ ४२८ ॥ के ह्यात्मंभरयो नेह । वडवानलसन्निभाः ॥ परार्थबद्धबुद्धिस्तु । कोऽपि स्यात् स्तनयित्नुवत् ॥ ४२९ ॥ वृथैव यौवनान्तं तं । जननी मास्मजी - जनत् ॥ याचते यः परं दीनः । शक्तो नावति यश्च तं ॥ ४३० ॥ देव ! त्वद्बलमासाद्य । नृसिंहेनातिदृप्यता ॥ जित्वा दैगंबरी दीक्षां । नीतोऽहं सर्वमोचनात् ॥ ४३१ ॥ एतन्मां प्रति कर्तु ते । युक्तं नासीद्विशांपते ! ॥ यतः शीतांशुवत्संतः । | सदृक्षाः पक्षयोर्द्वयोः ॥ ४३२ ॥ कुमुदाय श्रियं दत्तां । कृष्ट्वा राजा जडोंबुजात् ॥ त्वं तु राजन् ! बुधस्तस्मै । कथं दत्से रमां | मम ॥ ४३३ ॥ ततोऽस्मि त्वामुपायातो - ऽगदंकारमिवातुरः ॥ तथा प्रसद्यतां सद्यो । यथा स्यां सौख्यसख्यभाक् ॥ ॥ ४३४ ॥ तन्निशम्य नृपः प्रोचे । लज्जालुर्घनवाहनं ॥ मत्प्रमादेन यत्तेभू -- दहितं मे क्षमस्व तत् ॥ ४३५ ॥ मा च त्वं दुर्मनायिष्ठाः । काम्यस्वाम्यकृते कृतिन् ! ॥ अधुनैव करिष्ये त्वां । सुरेश्वरसमश्रियं ॥ ४३६ ॥ इत्युदीर्य श्रितौदार्यः । स तदैवाभयंकरः ॥ सोदर्यवन्निजे राज्ये । यावत्तमभिषिंचति ॥ ४३७ ॥ तावद्वयजिज्ञपन्मंत्री । देव ! कीदृक् तवौचिती ॥ तृणवत्पैतृकं राज्यं । यदस्मै प्रणिदित्ससे ||४३८ || नृपाणां राज्यमेव श्री -- स्तत्त्यागेनाधनंति ते ॥ किं कासारे परित्यक्ते । स्फूर्जति कमलाकराः ॥ ४३९ ॥ राजापि पूज्यते ताव -- द्यावल्लक्ष्मीरभंगुरा ॥ स्वेऽपि त्यजति तं निःस्वं । शुष्कं शौलमि
१ कमलसमूहाः २ स्वकीयाः ३ वृक्षं.
सर्ग. १
॥ १५ ॥