________________
कुमार
पालच०
॥ १४ ॥
स्वं । समीक्ष्य सुतमागतं ॥ जानन् पुनर्जातमिव व्यधत्तातुच्छमुत्सर्वं ॥ ३९६ ॥ अभ्यधत्त च वत्सेदं । राज्यं त्वामुपतिष्ठतां ॥ कुलधुर्ये सुते नास्म - द्वंश्या शंस्याः स्ववेश्मनि ॥ ३९७ || सुधा किरागिरा भक्ति-वल्लीं पल्लवयन्निव ॥ अथ व्यजिज्ञपत्तातं । सुतो विनयवामनः ॥ ३९८ ॥ द्वेधानि नरकांतेन । मम राज्येन किं प्रभो ! | सुरकांतमिदं याव-लभे त्वद्भक्तिवैभवं ॥ ३९९ ॥ त्वत्पदां भोरुहे मह्यं । सदसद्व्यक्तिकारणं ॥ रोचते राजहंसत्वं । न राजत्वं कलंककृत् ॥ ४०० ॥ इति वत्समनिच्छंत-मपि राज्ये नियुज्य तं ॥ क्षेमंकरः स्वयं क्षेमंकरीं दीक्षामशिश्रियत् ॥ ४०१ ॥ भास्वत्यभ्युदिते | तस्मिन् । सच्चक्रानंदकारिणि ॥ पद्मायितं सुहृद्भिर्द्राग् । द्विषद्भिः कुमुदायितं ॥ ४०२ ॥ तस्मिन्नरेश्वरे शश्व-नीतिरीतिपरेऽप्यलं ॥ अनीतिरेव सर्वोऽपि । जनोऽजायत कौतुकं ॥ ४०३ ॥ अथ पुष्पपुरस्वामी । नृसिंहाख्यो महीपतिः ॥ अभ यंकरमास्थानी - स्थितं नत्वा व्यजिज्ञपत् ॥ ४०४ ॥ दावपावकदग्धानां यथोल्लासी घनागमः ॥ तथा विरोधिध्वस्तानामुद्धर्ता त्वमसि प्रभो ! ॥ ४०५ ॥ निपेतुषां द्विपेंद्राणां । यथाधारो धरोध्धुरः ॥ पदच्युतानां भूपानां । तथा त्वं देव ! दीव्यसि ॥ ४०६ ॥ तगरानगरीशेन । घनवाहनभूभुजा ॥ निष्कारणद्विषा भ्रष्ट - राज्योऽहं विदधेऽधुना ॥ ४७ ॥ यथोपतिष्ठते मित्रं । राजा गलितमंडलः ॥ निजोद्दिधीर्षया तद्व-दहं त्वामस्म्युपस्थितः ॥ ४०८ ॥ तद्दत्वा खड्गसिद्ध्यादिसाहाय्यं मां तथोर्जय ॥ यथाऽत्योजायमानोऽरिं । हत्वा स्वीयां श्रियं श्रये ॥ ४०९ ॥ नृपः प्रपद्य तत्सद्य - स्तमुत्तारार्थमादिशत् ॥ ततो व्यजिज्ञपन्मंत्री सुमतिः स्वामिनं प्रति ॥ ४१० ॥ देव ! दाक्ष्यं किमेतत्ते । बलमात्राभिलाषिणे ॥ अस्मै
सर्ग. १
॥ १४ ॥