SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ARRIORCARE ॥ ३८१॥ अद्यापि विद्यते विद्या । खड्गसिद्धिकरी परं ॥ त्रिविष्टपजनाजग्यो । यच्छत्या जायते नरः ॥ ३८२ ॥ अयोगायोग्यपात्रस्य । न्यास्थं क्वापि न तामहं ॥ विद्यां न्यस्यन् यदस्थाने । तद्वांस्तद्वधपातकी ॥ ३८३ ॥ ईदृग्विद्योचितः। कश्चि-नास्त्यायुस्त्वल्पमेव मे ॥ इति चिंतांचितं सैव । विद्याऽभ्येत्य बभाण मां ॥ ३८४ ॥ मास्म चिंता कृथा वत्स!। प्रातः कोऽपि नृशेखरः॥ मयाऽत्रानेष्यते तस्मै । मां दत्वा त्वं सुखी भव ॥ ३८५ ॥ उक्त्वेति चेटकं प्रेष्य । त्वमत्रानाय्यथास्तया ॥ गृहाण तदिमां विद्यां । चिंतां मे निगृहाण च ॥ ३८६ ॥ न्यस्ता सुपात्रे विद्या स्या-गौरवाय गुरोरपि ॥२ सुक्षेत्रे निहितं बीजं । धनिकस्यातिवृद्धये ॥३८७॥ विद्यापि पात्रयोगेन । माहात्म्यमधिगच्छति ॥ शुत्याश्लेषेण मुक्तात्वं । लभते सलिलं किल ॥ ३८८ ॥ किं चेयं त्वद्गुणक्रीती । कनीव त्वय्यरज्यत ॥ एतहाने त्वहं हेतु-मात्रं तस्मादिमां भज ॥ ३८९ ॥ कुमारस्तमथावादी-मम त्वदर्शनादपि ॥ अभवन् सिद्धयः सर्वाः । खड्गसिद्धया किमेकया ॥ ३९०॥ इहलोकफलं स्वापं । चिंतारत्नादिदर्शनं ॥ लोकद्वयफलं त्वेतद्-दुरापं साधुदर्शनं ॥ ३९१ ॥ अघौघं प्राचीनं विघटयति पुण्यं प्रथयति । प्रसूते सद्बुद्धिं नवनवकलाः पल्लवयति ॥ हरत्यज्ञानांध्यं दिशति परमब्रह्मपदवीं । सतां संगः कल्पद्रुम इव न किं किं वितनुते ? ॥ ३९२ ॥ अनिच्छतोऽपि तस्येच्छं । खड्गविद्या निवेद्य सः॥ तदाराधनमामूल-चूल|| तथ्यमचीकथत्॥३९३॥अभंगं भाग्यमेवैकं । नृणां कामितकामधुक् ॥यतः शेये शयालु स्याद्-दुरापमपि वस्तु सत्॥३९४॥ तत्रैव सिद्धविद्यत्वा-त्कुमारं स्फारसंमदं ॥ अचिराच्चेटकोगी । पुनः स्वस्थानमापिपत् ॥ ३९५ ॥ ततः क्षेमंकरोऽपि । १ भाग्यात्. २ हस्ते. ३ तातः, प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy