SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सगे, कुमार वेधसाऽऽग्रहात् । कारयांचक्रिरे स्वीया, निनिमेषा दृशो ध्रुवम् ॥ २२३ ॥ त्वद्रूपदर्शनादेव, मथिता मान्मथैः शरैः। पालच० त्वां शरण्यं प्रपन्नाऽस्मि, वीरकोटीर ! रक्ष माम् ॥ २२४ ॥ अन्या अपि न कामिन्यः, प्रार्थयते नरं किल । विशिष्य प्रवरा देव्य-स्तन्मां मा स्मावजीगणः ॥ २२५॥ तच्छ्रुत्वाऽचिंतयद् भीमो, धिक् कामस्य दुरात्मताम् । विडंबयति यो ॥१४॥ देवी-रपि मानवकाम्यया ॥ २२६ ॥ अहो स्मरमहो येन, महांतोऽप्यधमा इव । रज्यंत्यनुचिते स्थाने, चटूनि घटयन्ति च ॥ २२७॥ कापालिक मे व्यसनं, शीलत्राणादभूद् वरम् । न तु सौख्यमिदं तस्य, निर्मूलोन्मूलनोदयात् ॥२२८॥ तावद् विशुद्धसंबोध-पीयूषरसपायनात् । अस्याः स्मरगरोत्सर्प-मूर्छामुत्सादयाम्यहम् ॥२२९॥ कुमारोऽथावददेवि!, हैमत्प्राणपरिरक्षणात् । असि धर्मप्रिया प्राय-स्तेन त्वं तत्त्वमुच्यसे ॥ २३० ॥ मया पुरो गुरोश्चक्रे, पारदार्यविवर्जनम् । 'दुर्ग मत्तगजेनेव', तेत् त (त्व) द्योगेन भन्यते ॥ २३१॥ खंडिते च ब्रतेऽवश्य, नरकक्रोडखेलनम् । कालकूटे कवलिते, संदिग्धं मरणं किमु ? ॥ २३२ ॥ वरं मृत्यु सुशीलानां, कुशीलानां न जीवितम् । दुर्विधत्वं सतां श्लाध्यं, न तु द्रव्यं कुकर्मणाम् ॥ २३३ ॥ किं चामी विषया वह्नि-शिखया समतामिताः । अंगिनां स्वप्रसंगेन, शीलांगानि दहंति ये ॥२३४ ॥ का नाम तस्य वैदग्धी, कश्च शौडिरिमंक्रमः । मुष्णंति यस्य शीलस्वं, विषयाः परमोषिणः ॥ २३५ ॥ क देवी दिव्यरूपा त्वं, मलिनोऽहं क मानवः । स्तुत्यस्तन्नावयोर्योगः, कस्तूरीपंकयोरिव ॥ २३६ ॥ तस्माद् दूरं परित्यज्य, १रक्षकम्. २ शीलस्य. ३ प्रथममित्यर्थः. ४ परस्य दारा एव दारा यस्य स परदारस्तस्य कर्म पारदार्य तस्य विवर्जनम् . ५ पारदार्यविवर्जनम् ६ पारदार्ययोPागेन. *निर्धनत्वम् । खकीयसंबंधात्, ८ पांडित्यम्. ९ साभिमानताक्रमः, कौशल्यपरंपरा वा. १० ब्रह्मधनम्. ११ परान मुष्णन्तीति परमोषिणः. COCCALCHAMGAGACCI SARAR ॥१४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy